पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- अथ सप्तमं संख्याधिकरणम् ॥ ७ ॥ (१)सप्तमाधिकरणमारचयति- आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता । एकत्वं सकृदाख्यातात्संख्यावृत्या प्रयाजवत् ।। १७ ।। आख्यातमात्रं नो मानं संख्यया बहुकर्मता । आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥ १८ ॥ पशून् सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् । विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥ १६ ॥ बहुत्वोपेतपशुभिर्देवयोगादभिन्नता । रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥२०॥ देवतासङ्गतस्यैव तद्धितार्थस्य पश्चिमः । बहुत्वसङ्गमो रूपसङ्ख्यया तक्रियाभिदा ।। २१ ।। (२)"तिस्र आहुतीर्जुहोती" ति श्रूयते। तत्र 'जुहोति' इत्येतदाख्यातं(३) “। ' “समिधो यजति' इत्यादिवन्नाऽभ्यस्तम् , किन्तु सकृदेवाऽऽम्नातम् । तत एकमिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा (४)प्रयाजेष्वेकादश- त्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वदिति प्राप्ते- ब्रूमः-किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम् ? उत पदान्तरा- न्वितम् ? नाऽऽद्यः-वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् । द्वितीये- त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन कर्मबहुत्वं गम्यते । प्रयाजानां तु पूर्वमेव पञ्च- संख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुस्सम्पादम् । इह त्वेतद्विधितः पूर्वं कर्मण एक- त्वसंख्यावरोधो नाऽस्तीति वैषम्यम् । तदेतवृत्तिकारोदाहरणं भाष्यकारो नाऽनुमन्यते, कर्मवाचिन आहुतिशब्दस्य वि- शेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् । इदं त्वत्रोदाहर- णम्-(५) “सप्तदश प्राजापत्यान् पशूनालभत" इति । अत्र प्रजापतिर्देवता येषां पशूनां १. पूर्वत्र सोमवाक्ये यागैकत्ववदत्रापि सकृच्छ्रवणेनाऽभ्यासाभावात् कम- कत्वं स्यादिति पूर्वपक्षोत्थानात्प्रत्युदाहरणसमतिः । २. (तै. सं. २. ३. ९.) 'वैश्वदेवी साङ्ग्रहणीं निर्वपेद्ग्रामकामः' इति वाक्य- विहितसाङ्ग्रहणीष्टिसन्निधौ श्रुतमिदं वाक्यम् । ३. तै. सं. २. ६. १. ४. 'एकादश प्रयाजान् यजती' (ते. सं. ६. ३. ७.) ति वाक्य विहितैकादशत्वसंख्येत्यर्थः । ५. ते. ब्रा. १. ३. ४. ९ जै० न्या० ७