पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" , अथ षष्ठं पशुसोमाधिकरणम् ॥ ६ ॥ (3)षष्टाधिकरणमारचयति- यजत्यालभतीत्येतावनुवादौ विधी उत । गृह्णात्यवद्यतीत्याभ्यां विहितेऽर्थेऽनुवादिनौ ।। १५ ।। नानुवादोऽपुरोवाद यज्यालभ्योरतो विधिः । ग्रहणे सोमसंस्कारोऽवदाने पशुसंस्क्रिया ॥ १६ ।। "सोमेन यजेत” इति श्रूयते । तत्र “ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, इत्यादीन्यपि श्रुतानि । एवं (२) "अग्नीषोमीयं पशुमालभेत” इति श्रूयते । तत्र (३) "हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसः' इत्यादीन्यपि श्रुतानि । तत्रैन्द्र- वायवादिवाक्यैर्यागा विधीयन्ते । इन्द्रवाय्वादिप्रातिपदिकैर्देवतानां, तद्धितेन सोमरस . द्रव्यस्य च प्रतीयमानत्वात् । एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः “सोमेन यजेत” इत्यनेनाऽनूद्यते । तथाऽवदानवाक्येषु हृदयादिद्रव्यं श्रुतम् । अतो द्रव्यवि- शिष्टा यागास्तत्र विधीयन्ते । तदनुवादेन पश्वालम्भवाक्येऽग्नीषोमरूपा देवता विधी- यते। तस्मादवदानवाक्य विहितानां यागानां समुदायः “पशुमालभेत' इत्यनेनानू- द्यत इति प्राप्ते- ब्रूमः-सति हि पुरोवादेऽनुवादो भवति । न चाऽत्र पुरोवादोऽस्ति, "सोमेन यजेत" इत्यनेन प्रतीतस्याऽर्थस्य ग्रहणवाक्येष्वप्रतीतेः । न हि ग्रहणं यजनं भवति । नाऽपि तद्धितप्रत्ययोक्तो रसः सोमलता । न च तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसमिति शङ्कनीयम् । “धारया गृह्णातिः' इति रसस्यैव प्रकृत- त्वात् । तथा “पशुमालभेत” इत्यनेन प्रतीतोऽर्थो नाऽवदानवाक्येषु प्रतीयते । ततः पुरोवादाभावेनाऽनुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयते । ग्रहणवाक्यस्तु देवताविशिष्टः सोमसंस्कारो विधीयते । अवदानवाक्यैश्च पशुसंस्कारः ।। इति षष्ठं पशुसोमाधिकरणम् ॥ , १. आधारग्निहोत्राधिकरणे 'दध्ना जुहोति’ ‘पयसा जुहोतो' त्यादिवाक्यरग्निहोत्र- वाक्यविहितकमोनुवादेन गुणमात्रस्य विधातुं शक्यत्वात् प्रकृतकर्माभावेनाऽग्निहोत्र- वाक्ये समुदायानुवादत्वं नाऽङ्गीकृतम् , प्रकृते तु 'अग्नीषोमीयं पशुमालभेत' 'सोमेन यजेते' ति वाक्यविहितयागीयद्रव्योद्देशेन हृदयादिविषयकावदानादिरूपरस्कारविध्ययो- गादवश्यमवदानादिवाक्येषु कर्मविध्यगतेः प्रकृतकर्मसद्भावेन समुदायानुवादत्वोपपत्ति- रिति पूर्वपक्षोत्थानात् प्रत्युदाहरणसङ्गतिः । २. तै. सं.६.१.११.६. ३. तै. सं. ६. ३. १० ४.