पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- अथ पञ्चममाघाराग्निहोत्राधिकरणम् ॥ ५ ॥ (१)पक्षमाधिकरणमारचयति- अग्निहोत्राघारवाक्यमनुवादोऽथवा विधिः । अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते ॥ १२ ॥ गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता । रूपं दध्यादिमन्त्राभ्यामतोऽसौ गुणिनो विधिः ॥ १४ ॥ इदमाम्नायते--(२) अग्निहोत्रं जुहोति, "दध्ना जुहोति" “पयसा जुहोति" इति च । इदमपरमाम्नायते-(३)"आघारममाघारयति" इति च । तत्राऽग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदाय- ाघारयति, "ऊर्ध्वमाघारयति" "ऋजु- स्याऽनुवादः । आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य । न त्वेतद्वाक्यद्वयं कर्मविधाय- कम् । कुतः ? द्रव्यदेवतालक्षणस्य यागरूपस्याऽभावादिति चेत्-- तत्र वक्तव्यम्-किं दध्यादिवाक्येन गुणमात्रं विधीयते ? किं वा गुणविशिष्टं कर्म ? नाऽऽद्यः-अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्य- चिदसिद्धौ गुण्यनुवादपुरस्सरस्य गुणमात्रविधानस्याऽसंभवात् । द्वितीये-विधिगौरवं स्या- त्। तच्च सत्यां गतावयुक्तम् । अतोऽग्निहोत्रादिवाक्यं कर्मविधायकम् । तत्र द्रव्यं द- ध्यादिवाक्यैर्लभ्यते । देवता तु मान्त्रवर्णिकी । (४)आघारेऽप्येवं द्रव्यदेवते उन्नेतव्ये ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ ५ ॥ - १. इह दध्यादेरन्यतः प्राप्त्यभावेन मन्त्रवर्णप्राप्तविष्ण्वाद्यनुवादेन विष्ण्वादि- वाक्यानामिव स्तावकत्वासंभवात् विधायकत्वे सति दध्यादिविशिष्टकर्म विधेरग्नि- होन्नवाक्यमनुवाद इति पूर्वपक्षोत्थानात्प्रत्युदाहरणसंगतिः । २. तै. सं. १. ५. ९. ३. ते. ब्रा. ३० ३.५ ४. “चतुर्ग्रहीतं वा एतदभूत्तस्याऽऽघारमाघायें" त्यनेन द्रव्यस्य, “इन्द्र ऊो- ऽध्वरो दिवि स्पृश महुतो यज्ञो यज्ञपतेरिन्द्रावान् स्वाहेत्याघारमाघारयतीत्यनेन विनियुक्तमान्त्रवर्णिकेन्द्रदेवतायाश्च प्राप्तिर्द्रष्टव्या ।