पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्थमुपांशुयाजाधिकरणम् ॥ ४ ॥ (१)चतुर्थाधिकरणमारचयति- उपांशुयाजमित्येषोऽनुवादोऽत्राऽथवा विधिः । विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता ।। ११ ।। जामित्वोक्तेरन्तराल उपांशुगुणके विधौ । सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः ।। १२ ।। इदमाम्नायते-(२)“जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपांशु- याजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामि- त्वाय अग्नीषोमावुपांशु यष्टव्योऽजामित्वाय” इति । तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्याऽनुवाद इति चेत्- मैवम् ; आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्पुरोडाशयोरन्तराले किंचिद्विधित्सितम् । न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते । पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् । चाऽत्र यजतीति वर्तमानापदेशः शङ्कनीयः, पञ्चमलकारस्याऽऽश्रयणात् । अन्तरालका- लवदुपांशुत्वगुणस्याऽपि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनामकत्वम् । सत्येवं गुणद्वय विशिष्टकर्मण्यायेन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् । न चाऽत्र विहितयागानुवादेन देवताविधिः शङ्कनीयः, समाधातव्येन जामित्वदोषेणोपक्रमात् , अजामित्वेन समाधानेनोपसंहाराच "जामि का" इत्यादेः "अजामित्वाय” इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः । न खल्वेकस्मिन्वाक्ये विधेयवाहुल्यं संभवति । न चाऽत्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः, ध्रौवस्य तद्र्व्यत्वात् । नापि देवताया अभावः, नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देव- तात्रयस्य प्रतीयमानत्वात् । तस्मात् यजतीत्येतद्विधायकम् ।। इति चतुर्थमुपांशुयजाधिकरणम् ॥ ४ ॥ न २. १. पूर्वाधिकरणेनाऽस्याऽऽपवादिकी सङ्गतिः । ( तै. सं. २. ६. ६.) अन्वञ्चौ अव्यवहितौ पुरोडाशसाध्यो आग्नेयाग्नी- षोमीययागौ यत्क्रियेते, तदेतत् जामि आलस्यजनकम , एकरूपत्वात् । अतस्तौ यागौ अन्तरा तदन्तरालकाले उपांशुयाज यजतीत्यर्थः । ,