पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पौर्णमास्यधिकरणम् ] द्वितीयोऽध्यायः । ९३ , , धायकं न भवति, किन्तर्हि ? पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपो द्वौ समुदायावनुव- दति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः, तत्त- त्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् । न चाऽनुवादो व्यर्थः, समुदायद्वित्वसिद्धेस्त- त्प्रयोजनत्वात् । तत्सिद्धौ च “दर्शपूर्णमासाभ्यां स्वर्ग कामो यजेत" इत्यस्मिन् फल. वाक्ये षड्यागविवक्षया द्विवचन निर्देश उपपद्यते । यदप्युक्तमनुवादपक्षे “पौर्णमास्यां" इत्यादिवाक्यवैयर्थ्यमिति, तदयुक्तम् ; कालविधानासंभवेऽप्येकैकस्य त्रिकस्य सहप्रयो- गविधानात् । आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सह- प्रयोगः 'पौर्णमास्या' इत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्राऽपि । ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नाऽनुवादकत्वम् , तस्य यागविधा. यकत्वाभ्युपगमात् । “आग्नेयोऽष्टाकपालः' इत्यादिवाक्यानि तु विहितयागानुवादेन द्र- व्यदेवतालक्षणगुणविधायकानीति चेत्-न; तथासत्येकेन वाक्येनाऽनेकगुणविध्यसंभवात् प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत । आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्ट- विधित्वान्नाऽस्ति विध्यावृत्तिदोषः । तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवाद- कम् । किं चानुवादत्वमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् । तथा हि-(१) “समिधो यजति"(२) आधारमाघारयति' इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः । “यदाग्नेयोऽष्टाकपालोऽऽमावास्या- यां च पौर्णमास्यां चे" त्यादयः कालयुक्ता अपरे । तेषामुभयेषां प्रकृतत्वात् "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति वाक्येन सर्वेषां फलसंबन्धो बोधनीयः । 'दर्शपूर्णमासाभ्यां' इति द्विवचनमत्र बहुवचनत्वेन परिणेतव्यम् । विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेत्येतेषु द्वित्वासंभवात् । सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् । तदभावे चा- नङ्गत्वात्सौर्यादिविकृतिष्वाग्नेया दीनामिवाऽतिदेशो न स्यात् । अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् , समुदायद्वित्वेन द्विवचनार्हत्वाचाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् , 'प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः । तस्मात् विद्वद्वाक्यमनुवादकम् ॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ ३ ॥ १. ते. सं २.६.१. १. १; श. ब्रा. १. ४. ५. १. २. ( तै. वा. ३. ३. ७.) अस्य वाक्यस्याऽर्थः ५० पृष्ठे टिप्पण्यां द्रष्टव्यः