पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ सविस्तरायां जैमिनीयन्यायमालायां [अ.२.पा. १. अधि.३. सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते । न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् । अत एवोक्तम्- (१) "ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी । रूपवन्तौ ततो यागौ विधीयेते पृथक्तया" इति ॥ (२)“सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्” इति ध्रौवस्य साधारणत्वं श्रुतम् । देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम्- (३) तस्माद्वार्त्रघ्नी पूर्णमासेऽनू- च्येते, वृधन्वती अमावास्यायाम्” इति वार्त्रध्नौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयते । तत्र- -(४)“अग्निर्वृत्राणि जङ्घनत्” इत्येको वार्त्रघ्नो मन्त्रः,(५) "त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा' इत्यपरः । तयोरुक्तावग्नीषोमौ पौर्णमासदेवते। एवमनन्तराम्नातयोर्वृधिधातुयुक्तयोः(६)मन्त्रयोरुक्तावग्नीषोमावमावास्यादेवते। आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते । षड्यागानुवादत्वे तदनुवादेन विधे- यान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् । न केवलं तदानर्थक्यम् , किन्तु "पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत' इत्येतदपि व्यर्थ स्यात् । न चैतत्कालविधायकम् , “यदाग्नेय” इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् । कर्मान्तरत्वे तु कालं विधास्यति । तस्मात्कर्मान्तरविधिरिति प्राप्ते- ब्रूमः-आस्तां तावद्र्व्यम् । देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते । वार्त्रघ्न्योवृधन्वत्योश्चाऽऽज्यभागदेवताप्रतिपादकत्वात् । हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽऽम्नाते । लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते । यत्तु “वार्त्रघ्नी पौर्णमास्याम्” इत्यादि वाक्यम् , तल्लिङ्गक्रमक्लुप्तयोराज्यभागाङ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्था- माचष्टे, न तु नूतनकर्माङ्गतां तयोर्विदधाति । अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरवि- " २. ४. १. तं. वा. २. २. ३. पृ. ४७५. पू. सं. तै. ब्रा.३.३. ५.५. ३. तै. सं. २. ५. २. ५. 'अग्निषत्राणि जाङ्घनद्रविणस्युविपन्यया । समिद्धश्शुक्र आहुतः' (ऋ.सं.४. ५. २७.) इति समग्रो मन्त्रः । ५. 'त्वं सोमाऽसि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असि क्रतुः' (ऋ. सं. १. ६. १९.) इति समग्रो मन्त्रः । ६. 'अग्निः प्रत्नेन मन्मना शुभानस्तन्वं स्वाम् । कविविप्रेण वावृधे ॥ ( ऋ. सं. ६. ३. ३८.) 'सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । सुमृलीको न आविशः ॥ (न. सं. १. ६. २१.) इति द्वौ वृधन्वत मन्त्रौ द्रष्टव्यौ ।