पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गुणशेषाधिकरणम् ] द्वितीयोऽध्यायः । ९९ । , तिश्शब्दार्थः । स च ज्योतिश्शब्दोऽतीतमपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माऽ- भिधत्ते । ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथाऽत्रापि संज्ञया कर्म भिद्यते। विश्वज्यो- तिस्सर्वज्योतिश्शब्दयोरप्ययं न्यायो द्रष्टव्यः ॥ इत्यष्टमं संज्ञाधिकरणम् ॥ ८ ॥ अथ नवमं गुणाधिकरणम् ॥ ६॥ (१) नवमाधिकरणमारचयति- गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति । गुणो देवाननूद्योक्तसमुच्चयविकल्पतः ॥ २४ ॥ आमिक्षात्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् । गुणोऽप्रविश्य कर्माऽन्यत्कल्पयेद्वाजिदेवकम् ॥ २५ ॥ "तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्” इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् । तत्र आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, ते 'वाजिभ्यः' इत्यनेनाऽनूद्यन्ते, 'वाजोऽन्नमामिक्षारूपमेषामस्तीति तन्निष्पत्तेः। ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वेति प्राप्ते- ब्रूमः-उत्पत्तिशिष्टेनाऽऽमिक्षाद्रव्येणाऽवरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशि- ष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति । ततो द्रव्यदेवताल- क्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् ।। , इति नवमं गुणाधिकरणम् ॥ ९ ॥ अथ दशमं गुणशेषाधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- दधिहोमेऽन्यकर्मत्वं गुणो वाऽन्यत्तु पूर्ववत् । निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः ॥ २६ ॥ “दध्ना जुहोती” इति श्रूयते । तत्र(२)“अग्निहोत्रं जुहोती” त्येतस्मात्प्रकृता. १. पूर्वाधिकरणेनाऽस्य प्रासङ्गिकी सङ्गतिः । .. तै. सं. १.५. ९.