पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अभ्यासाधिकरणम् ] द्वितीयोऽध्यायः । , . > " इहेकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोती- त्यादीन्युदाहरणम् । तानि चैवं श्रूयन्ते- “सोमेन यजेत (5) "हिरण्यमात्रेयाय ददाति "(२) "दाक्षिणानि जुहोति" इति । तेषु भावनावाचिन आख्यातस्यैकत्वाद्भाव- नाया एकत्वं युक्तम् । न च धातुभेदाद्भावनाभेदः । तद्वाचित्वाभावेन धातोस्तस्याम- प्रयोजकत्वादिति प्राप्ते ब्रूमः-अस्त्वाख्यातमेव भावनायाः प्रयोजकम् । तच्चाऽऽख्यातं प्रतिधातु भिन्नम् । न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नाऽपि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् । तत आख्यातानां बहूनामेकैकधातुविशेषानुरक्तत्वे- नैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते ॥ - अत्र गुरुतमाह- नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् । धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात् ।। ३ ।। कर्मभेदचिन्ता नाऽध्यायार्थः, किंतु शास्त्रभेदचिन्तेति गुरोर्मतम् । तत्र यजेत, दद्यात् , जुहुयादित्येतेषु लिङ्प्रत्ययवाच्यस्य नियोगस्यैकत्वाद्धातूनां नियोगवाचकत्वा- भावेनाऽप्रयोजकत्वादेकनियोगार्थं कृत्स्नं शास्त्रमेकमिति पूर्वपक्षः । प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगेऽपि भेद- स्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नमिति सिद्धान्तः ।। इति प्रथमं शब्दान्तराधिकरणम् ॥ १ ॥ अथ द्वितीयमभ्यासाधिकरणम् ॥ २ ॥ (३)द्वितीयाधिकरणमारचयति- समिधो यजतीत्यादावेकत्वमुत भिन्नता । २. १. श. बा. ( ४. ३. ४. २१.) अस्याऽर्थः ७१ पृष्ठे टिप्पण्यां द्रष्टव्यः । (ते. सं. ६. ६. १. १. ) सोमयागे माध्यन्दिनसवने दक्षिणादानात्पूर्व क्रि- यमाणानि हवनानि दाक्षिणानीत्युच्यन्ते । दक्षिणां दित्सुना क्रियमाणत्वाद्दाक्षिणानीत्येषां संज्ञा । तदाहाऽऽपस्तम्बः-'प्रचरण्या दाक्षिणानि जुहोति हिरण्यं प्रबध्य घृतेऽवदायो- दुत्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोति' ( आ. श्री. १३. ५. ६.) इति । ३. पूर्वाधिकरणवदिह धात्वर्थभेदाभावान्न भावनाभेद इति पूर्वपक्षोत्थानात्न त्युदाहरणसङ्गतिः । -