पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. २. अधि १. अग्नीषोमीयपशौ श्रूयते-(१) “सं ते प्राणो वातेन गच्छताम् , समङ्गानि यज- त्रैः, सं यज्ञपतिराशिषा" इति । अयमर्थः- 'भोः पशो तव प्राणो वातेन बाह्येन वायु. ना सङ्गच्छताम् , तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम् , यज्ञपतिराशिषा संयुज्यताम्' इति । तत्र 'यज्ञपतिरित्यस्मिस्तृतीये मन्त्रे समित्युपसर्गस्य क्रिया- पदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य ‘गच्छताम्' इति पदस्यैकवचनान्तस्य यज्ञपतिश- ब्देनाऽन्वेतुंयोग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन सन्निहितत्वादाकाङ्क्षासन्निधियोग्यतानां सद्भावेन क्रियापदमनुषज्यत इति प्राप्ते- ब्रूमः-मध्यममन्त्रे बहुवचनान्तेन ‘अङ्गानि' इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसन्निध्यभावान्नाऽस्त्यनुपङ्गः । ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्या- हर्तव्यः ॥ इति सप्तदशं व्यवायाधिकरणम् ॥ १७ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे द्वितीया- ध्यायस्य प्रथमः पादः॥ १ ॥ अथ द्वितीयाध्यायस्य द्वितीयः पादः ॥ तत्र प्रथमं शब्दान्तराधिकरणम् ॥ १॥ (२)द्वितीयपादस्य प्रथमाधिकरणमारचयति- ददाति यजतीत्यादौ भावनैक्यमुतान्यता । आख्यातैक्यात्तदेकत्वं धातुभेदोऽप्रयोजकः ॥ १ ॥ धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः । उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः ॥ २ ॥ १. श. वा. :. ५. ४. ८ ; 'सन्ते वायुर्वातेन गच्छतामि' ( मै. सं. १ २. १५.) ति पाठः । २. पूर्वस्मिन् पादे उपोद्धातप्रसक्तानुप्रसक्तं. वृत्तम् । इदानीमस्मिन् पादेऽवसरप्रा- प्तोऽध्यायार्थभूतो भावनाभेदः प्राधान्येन शब्दान्तरा, भ्यास, संख्या, संज्ञा, गुण, प्रकरणान्तरैषभिः प्रमाणेः प्रतिपाद्यते । तत्राऽपि शब्दान्तरस्थले धात्वर्थभेदस्य स्पष्टत्वेन तभेदनिबन्धनभावनाभेदस्य सुखेनोपपादयितुं शक्यत्वात् सूचीकटाहन्या- येन प्रथम तस्यैव भेदकता निरूप्यत इति बोध्यम् ॥