पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यवायाधिकरणम् ] द्वितीयोऽध्यायः । ८७ " द्वितीयं वर्णकमारचयति- नाऽनुषङ्गोऽनुषङ्गो वाऽच्छिद्रेणेत्यस्य शेषिणौ। चित्पतिस्त्वेत्यनाकाङ्क्षावतो नाऽत्राऽनुषज्यते ॥ ३६ ॥ करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति । मन्त्रत्रयेऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते ॥ ३७ ।। ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते-(१) “चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” इति । तत्र तृतीयमन्त्रशेषः 'अच्छिद्रेणे'त्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते। कुतः ! निराकाङ्क्षत्वात् । न हि "चित्पतिस्त्वा पुनातु” “वाक्पतिस्त्वा पुनातु" इत्यनयोः शेषिणोः सम्पूर्णवाक्ययोः काचिच्छेषाकाङ्क्षाऽस्तीति प्राप्ते- ब्रूमः-मा भूच्छेषिणोराकाङ्क्षा, तथाऽपि शेषस्याऽऽकाङ्क्षाऽस्ति । 'पवित्रेण रश्मि- भिः' इत्युक्तं करणत्वं हि क्रियामपेक्षते । क्रिया च 'पुनातु' इत्येषा त्रिष्वपि मन्त्र- ष्वेका । तया क्रियया सम्वद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथाऽन्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति । तस्मादस्त्यनुषङ्गः ।। इति षोडशमनुषङ्गाधिकरणम् ॥ १६ ॥ 1 > अथ सप्तदशं व्यवायाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- गच्छतामिति शब्दस्याऽनुषङ्गोऽस्ति न वोपरि । सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्ववत् ।। ३८ ॥ तदेकवचनं मध्यमन्त्रेऽङ्गानीत्यनेन हि । नाऽन्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ॥ ३९ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १. है. सं. १. २. 1.