पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. २. अधि.२. . > > - धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः ॥ ४ ॥ अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे । विधित्वं श्रतितो भाति सन्निधरनुवादता ॥ ५॥ दर्शपूर्णमासयोः श्रूयते-(१) “समिधो यजति” “तनूनपातं यजति' "इडो यजति, "बर्हिर्यजति" "स्वाहाकारं यजति" इति। तत्र पञ्चकृत्वः श्रूयमाणे यजति- पदे पूर्वोक्तेषु 'यजति ददाति' इत्यादिपदेष्विव धातुभेदो नाऽस्ति, येन भावनाभेद आशङ्कयेत । तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत्- मैवम् : यजतिपदाभ्यासेन कर्मभेदावगमात् । कर्मैकत्वेऽभ्यासो निरर्थकः स्यात् । अथोच्येत–'समिधो यजति' इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं याग- मुपरितनैश्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततोऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यमिति । तन्न; तनूनपादादि- शब्दानां यागनामत्वेन गुणविधित्वाभावात् । न तावदत्र देवताविधिः, चतुर्थीतद्धित- योरश्रवणात् । नाऽपि द्रव्यविधिः, तृतीयान्तत्वाभावात् । ततः “अग्निहोत्रं जुहोति" इत्यादाविव द्वितीयान्तानां युक्तं नामत्वम् । यत्तु-चतुर्णामुपरितनानां यजतिपदाना- मनुवादत्वम् । तदसत् ; तेषां विधायकत्वात् । यथा 'समिधो यजति' इत्यत्र यजति- पदे विधित्वं श्रुत्या प्रतीयते, तथाऽन्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् । अनुवादत्वं तु पुरोवादरूपस्य ‘समिधो यजति' इत्यस्य सन्निधिनाऽवगम्यते । सन्निधिश्च श्रुतेर्दुर्- बलः । विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनू. नपादादिनामकानि यागान्तराणि विधीयन्ते । नन्वेवं सति संज्ञाभेदात्कर्मभेदः सम्पद्यते, न त्वभ्यासात् । तथासति वक्ष्यमाणेना. धिकरणेन संकीर्येत । मैवम् ; वैषम्यात् । (२) अथैष ज्योतिः” इत्यस्मिन् वक्ष्यमा- णोदाहरणे यागावगमात्प्रागेव संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् । इह तु-विधा- यकैर्यजति पदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्यास्संज्ञा अपेक्षिता इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते । तस्मात् अभ्या- स एवाऽत्र भेदहेतुः ॥ इति द्वितीयमभ्यासाधिकरणम् ॥२॥ १. ते. सं. १.१.२; श. व्रा. १. ४. ५. १. २. ता, ब्रा, १६.८.१.