पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तुतशस्त्राधिकरणम् ] द्वितीयोऽध्यायः । ( ति"(१) आहवनीयमादधाति' इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते । "व्रीहीनवहन्ति” “तण्डुलान् पिनष्टि" इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् । प्रयाजादि- पूक्तवैपरीत्याप्रधानकर्मत्वम् । एवं सत्यवघातेन यथा ब्रीहीणां तुषविमोको दृष्टः संस्का- रः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः । अतोऽवघातवद्गुणकर्मत्वा- भावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते- ब्रूमः—'स्रुच' इति द्वितीया कर्मकारके विहिता । कर्मत्वं चेप्सिततमत्वे सति भवति (२) कर्तुरीप्सिततमं कर्म" इति कर्मसंज्ञाविधानात् । ऋतुसाधनत्वेन च स्रुचां युक्त मीप्सिततमत्वम् । अतः प्रधानभूताः स्रुचः । तथा सति संमार्जनक्रियाया गुणकर्मत्व- मवघातवद्भविष्यति । यदि स्रुक्षु दृष्टोऽतिशयो न स्यात् , तर्ह्यपूर्वं कल्पनीयम् ॥ . । इति चतुर्थ सम्माधिकरणम् ॥ ४ ॥ - अथ पञ्चमं स्तुतशस्त्राधिकरणम् ॥ ५ ॥ (३)पञ्चमाधिकरणमारचयति- प्रउगं शंसतीत्यादौ गुणतोत प्रधानता । दृष्टा दैवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः॥ १८ ॥ स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।। तेनाऽदृष्टमुपेत्याऽपि प्राधान्यं श्रुतये मतम् ।। १६ ।। ज्योतिष्टोमे श्रूयते—(४)"प्रउगं शंसति” (५)“निष्केवल्यं शंसति' “आज्यै- स्स्तुवते" "पृष्टः स्तुवत' इति । प्रउगनिष्केवल्यशब्दो शस्त्रविशेषनामनी । आज्यपृ- ष्ठशब्दौ तु व्याख्यातौ । (६)अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् । (५)प्रगीतमन्त्रसा- ध्या स्तुतिः स्तोत्रम् । तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् । कुतः ? तुषविमोकवद्ह. १. सत्या. श्री. १. ६. ४४. २. पा. सू. १.४.४९. ३. पूर्वाधिकरणोक्तगुणकर्मत्वापवादादापवादिकी सङ्गतिः । ४. प्रउगसंज्ञकशंसनेन ( शस्त्रेण ) प्रकृतज्योतिष्टोमापूर्वं भावयेदिति वा- क्यार्थः । निष्केवल्यसंज्ञकेन शस्त्रेण प्रकृतज्योतिष्टामापूर्वं भावयेदिति वाक्यार्थः । सामरहितैः केवलैर्मन्त्रैः स्तुतिः शस्त्रमित्यर्थः । ७. सामविशिष्टमन्त्रैः स्तुतिः गुणिनिष्टगुणबोधकशब्दप्रयोगः स्तोत्रमित्यर्थः । ६.