पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. १.अधि. ६. > ष्टर्थलाभात् । पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता (१)संस्क्रियत इति प्राप्ते-- ब्रूमः--स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वा- च्योऽर्थः । यदि मन्त्रवाक्यानि गुणसम्बन्धाभिधानपराणि, तदा धात्वोर्मुख्यार्थलाभा- च्छ्रुतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणाऽनुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योऽर्थो न स्यात् । लोके हि 'देवदत्तश्चतुर्वेदाभिज्ञः' इत्युक्ते स्तुतिः प्रतीयते, तस्य वाक्यस्य गुणसंबन्धपरत्वात् । यदा तु देवदत्तस्वरूपप- रता 'यश्चतुर्वेदी तमानये'त्यादौ, तत्र न स्तुतिप्रतीतिः । तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् । ततश्च 'आज्यैर्देवं प्रकाश- येत्' 'पृष्टंदैवं प्रकाशयेत्' इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्योऽर्थो बाध्येत । ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नाऽस्तीति चेत्-तर्ह्यपूर्वमस्तु ॥ इति पञ्चमं स्तुतशस्त्राधिकरणम् ॥ ५ ॥ अथ षष्ठं विधिमन्त्राधिकरणम् ॥ ६॥ (२)षष्टाधिकरणमारचयति- विधायकं न वाऽन्येन समत्वात्तद्विधायकम् ॥ २० ॥ देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् । यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः । आख्यातमभिधानं च प्रधानगुणकर्मणी ॥ २१ ॥ अयं मन्त्र आम्नायते-(३)"देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह" इति । अयमर्थः-गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते, याश्च गा ब्राह्मणेभ्यो ददाति, चिरमेव ताभिः सह परलोकेऽवतिष्ठत इति । तत्र यथा ब्राह्मणगत- माख्यातपदं प्रधानगुणकर्मणोरन्यतरस्य विधायकम् , तथा मन्त्रगतमपीति चेत्- मैवम् : यच्छब्दादिना विधिशक्तैः क्षीणत्वात् । सति हि यच्छब्दे तस्य वाक्य - स्याऽनुवादकत्वं प्रतीयते, न तु विधायकत्वम् । 'यच्छब्दादेः' इत्यादिशब्देनोत्तमपुरुषा- १. गुणिबोधं विना तन्निष्टगुणाभिधानासम्भवेन गुणिनोऽप्यभिधानावश्यकत्वे लिङ्गा- दृष्टार्थे गुणिप्रकाशन एव स्तुतिशंसनयोर्विनियोगः कल्पनीयः-स्तोत्रशस्त्राभ्यां यागीय- देवतादिकं प्रकाशयेदिति । अतो गुणकर्मत्वमेव स्वीकर्तव्यमिति भावः । २. पूर्वाधिकरणेनाऽस्य प्रासङ्गिकी सङ्गतिः । ३. तै. ब्रा. २. ४. ६. ९.