पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. १. अधि. ४. - " ? अत्र गुरुमतमाह- द्वितीयां सक्तुवद्भक्त्वा नियोगेऽन्वीयतां क्रिया । साक्षादिति न मन्तव्यं दृष्टस्याऽत्रोपपत्तितः ॥ १५ ॥ "सक्तून् जुहोती त्यत्र द्रव्य प्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा किया प्राधान्याय “सक्तुभिर्जुहोती"ति तृतीयात्वेन विपरिणामो वक्ष्यते । तथा 'व्रीहिभिरव- हन्तीति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगेऽन्वे- त्विति चेत्- मैवम् ; वैषम्यात् । तत्र होमेन सक्तुषु संस्कारो न संभवति, भस्मीभूतानामन्यत्र विनियोगासंभवादित्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् । इह तु दृष्टस्तुषविमोक- संस्कार उपपद्यते, वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् ॥ इति तृतीयं तानिद्वैधाधिकरणम् ॥ ३ ॥ - अथ चतुर्थं सम्माधिकरणम् ॥ ४ ॥ (१)चतुर्थाधिकरणमारचयति- समाष्टिं स्रुच इत्यत्र किं प्रधानाख्यकर्मता । गुणकर्मत्वमथवा ? दृष्टाभावेऽवधातवत् ॥ १६ ॥ गुणत्वं न हि संभाव्यं, प्राधान्यं तु प्रयाजवत् । अदृष्टकल्पनेनाऽपि गुणत्वं स्याद्वितीयया ॥ १७ ॥ दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः सम्मार्जनमाम्नायते-(२)"स्रुचः संमार्ष्टि' इति । तत्र संमार्जनं प्रधानकर्म । कुतः ? गुणकर्मलक्षणरहितत्वात् , प्रधानकर्मलक्षणयुक्त त्वाच्ट । सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक् सूत्रयामास-(३) "तानि द्वैधं गुणप्रधानभूतानि (४) “यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्" (५) यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि द्रव्यस्य गुण- भूतत्वात् ॥ इति । यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तुं वेष्यते, तेषु कर्मसु गुणत्वम् । कुतः ? तस्य कर्मणो द्रव्य प्रधानत्वात् । द्रव्यं प्रधानमस्येति बहुव्रीहिः । “यूपं तक्ष. १. पूर्वाधिकरणसिद्धान्तहेतुभूतदृष्टोपकारकत्वस्याऽऽक्षेपादाक्षेपिकी सङ्गतिः । २. ( तै. वा. ३. ३. १. ) सम्मार्गेण खुचस्संस्कुर्यात् । खुचः-जुहूपभृध्रुवः । ३. पू. मी. २. १. ६. ४. पू. मी. २. १. ८. ५. पू. मी. २. १. ७. , - "