पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तानिद्वैधाधिकरणम् ] द्वितीयोऽध्यायः । ७५ नश्यति, किंतु सूक्ष्मरूपत्वेनाऽदृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमा- णुषु यागकर्तर्यात्मनि वाऽवस्थाय फलमारभत इति पूर्वपक्षः । नैतद्युक्तम् ; उक्तेऽर्थे प्रमाणाभावात् । न च नियोगेऽपि प्रमाणाभावः शङ्कनीयः। वैदिकलिङादीनां तदभिधायकत्वात् । ततो धात्वर्थातिरिक्तं कालान्तरमाविकाम्यफल. साधनमपूर्वमस्ति ॥ इति द्वितीयमपूर्वाधिकरणम् ॥ २ ॥ अथ तृतीयं तानिद्वैधाधिकरणम् ॥ ३ ॥ (१)तृतीयाधिकरणमारचयति- अवघातादिनाऽपूर्वमुत्पाद्यं विद्यते न वा । यजत्यादिवदस्त्येव वाक्यवैयर्थमन्यथा ॥ १३ ॥ दृष्टे तुषविमोके तु नाऽपूर्वं द्रव्यतन्त्रतः । स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः ॥ १४ ॥ दर्शपूर्णमासयोः श्रूयते-(२)“व्रीहीनवहन्ति” “तण्डुलान् पिनष्टि” इति । तत्र अवघातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात् , यजत्यादिधात्वर्थवत् । विपक्षे विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्कोऽवगन्तव्यः । तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजन- योर्लॊकसिद्धत्वेन तादयेऽवघातपेषणयोर्विधिर्व्य॑र्थस्स्यात् । तस्मात् अस्त्यपूर्व- मिति प्राप्त- ब्रूमः-दृष्टफले संभवत्यपूर्वं न कल्पनीयम् । यजत्यादिदृष्टान्तस्तु विषमः । तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् । इह तु 'ब्रीही- न्' इति कर्मकारकविभक्त्या ब्रीहीगामीप्सिततमत्वेन प्राधान्यावगमाद्र्व्यपरतन्त्रोऽव घातो द्रव्य एवाऽतिशयं कुर्यात् , न त्वपूर्वं जनयति । न च विधिवैयर्थ्यम् , नखनिर्भे- दनादिना तुषविमोकसंभवेऽपि अवघातेनैवाऽसौ कर्तव्य इति यो नियमस्तस्य नियम स्याऽपूर्व हेतुत्वेन विधेयत्वात् । तस्मान्नाऽस्त्यवघातादिजन्यमपूर्वम् ॥ धात्वर्थेभ्योऽपूर्वमिति भावार्थाधिकरणे स्थितम् । तदेतदपवदितुमिदमार- भ्यत इत्यापवादिकी सङ्गतिः । २. अवहननेन व्रीहीन संस्कुर्यात् , पेषणेन तण्डुलान् संस्कुर्यादिति वाक्यार्थः । पेषणं नाम चूर्णीकरणम् । . १.