पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. १. अधि. २. । काचिच्छक्तिरपूर्वमस्तु । शक्तिव्यवधानेऽपि यागस्य साधनत्वमविरुद्धम् । औष्ण्यव्यवहि- तेऽप्यग्नौ दाहकत्वाङ्गीकारात् । यथाऽङ्गारजन्यमौष्ण्यं शान्तेष्वप्यङ्गारेषु जलेऽनुवर्तते, तथा यागजन्यमपूर्वं नष्टेऽपि यागे कर्तर्यात्मन्यनुवर्तताम् । तस्मादस्त्यपूर्वम् । तद्विशेषस्तु-संप्रदायसिद्धयागप्रक्रिययाऽवगन्तव्यः । तथा हि प्रक्रिया पूर्वाचार्यै रित्थं दर्शिता-प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोध्यते—'योगेन स्वर्ग कुर्यात्' इति । कथं विनश्वरेण फलं कर्तव्यम् ? इत्य पेक्षायाम्-'अपूर्वं कृत्वे त्युच्यते । कथमपूर्व क्रियत इत्यपेक्षायां-'यागानुष्टानप्रकारेण' इति । तच्चाऽपूर्वं दर्शपूर्णमासयो- रनेकविधम्-फलापूर्वम् , समुदायापूर्वम् , उत्पत्त्यपूर्वम् , अङ्गापूर्व चेति । येन स्वर्ग आरभ्यते तत्फलापूर्वम् । अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्या- मपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूरम्भायोगात्तदारम्भाय समुदायद्वयजन्य- मपूर्वद्वयं कल्पनीयम् । तयोरेकैकस्याऽऽरम्भायैकैकसमुदायवर्तिनां त्रयाणां यागानां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि । तेषां चाङ्गोपकारमन्तरेणाऽनिष्पत्तेरङ्गानां चाऽनेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि । तत्र त्वयं विभागः-(१)संनिपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवाऽतिशयाधानेन तदुत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते, तद्द्वारेण फलापूर्वे । (२)आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्यपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रि- यन्ते । एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणीत्येकरूपेणेत्थंभावेन स्वीक्रियन्ते । अनयेव दिशा सर्वत्राऽपूर्व प्रक्रियाऽवगन्तव्या ॥ , , अत्र गुरुमतमाह- यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता । यावत्फलं नियोगाख्यं नाऽपूर्वमिति चेन्न तत् ॥ ११ ॥ मानहीनं क्रियासौम्यं नियोगस्तु लिङादिना । अभिधेयः पृथग्यागादपूर्वं कार्यमस्त्यतः ॥ १२ ॥ गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते, तन्नाऽस्ति । कुतः ? अन्तरेणैव तदपूर्वं फल. निष्पत्तेः । न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् । न हि यागक्रिया सर्वात्मना १. यागाङ्गद्रव्यदेवताद्युद्दिश्य विधीयमानं कर्म सन्निपत्योपकारकम् । यथा 'नीही- नवहन्तीति वाक्यं प्रकृतदर्शपूर्णमासयागाङ्गभूतवीहीनुद्दिश्याऽवहननं विधत्त इत्यव- हननं सन्निपत्योपकारकं भवति । २. यागाङ्गद्रव्यदेवताद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकम् ।