पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपूर्वाधिकरणम् ] द्वितीयोऽध्यायः । ७३ र्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते । तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वं गम्यते । चिन्ताप्रयोजनं तु-पूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः, सिद्धान्ते तु तत्स- द्भाव इति ।। इति प्रथमं भावार्थाधिकरणम् ॥ १ ॥ अथ द्वितीयमपूर्वाधिकरणम् ॥ २॥ (१) द्वितीयाधिकरणमारचयति- अपूर्वसदसद्भावसंशये सति नाऽस्ति तत् । मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः ॥ ८॥ क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् । विरुद्धं मान्तरेणाऽतः श्रेयोपूर्वस्य कल्पनम् ।। ६ ॥ अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते । अपूर्वमिति तद्भेदः प्रक्रियातोऽवगम्यताम् ॥ १० ॥ पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम्-अपूर्वस्यैकमेव पदं प्रत्यायकम् , तब 'यजेत' इत्याख्यातान्तभावार्थपदमिति । तदनुपपन्नम् ; अपूर्वसद्भावे मानाभावात् । 'यजेत' इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् । अपूर्वाभावे कालान्त- रभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्याऽनुपपन्नमिति चेत्-न; शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते- ब्रूमः—'दर्शपूर्ण मासाभ्याम्' इति तृतीयाश्रुत्या तावद्यागस्य वर्गसाधनत्वं प्रमि- तम् । तद्यथोपपद्येत तथाऽवश्यं भवताऽपि कल्पनीयम् । तत्र किं यावत्फलं यागस्या- ऽवस्थानं कल्प्यते ? किंवा विनष्टस्याऽपि स्वर्गोत्पादनम् ? नाऽऽद्यः-यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् । न द्वितीयः-मृतयोर्दम्पत्योः पुत्रोत्पत्त्यदर्शनात् । अतो मानान्तर- विरुद्धाद्भवदीयकल्पनादस्मदीयमविरुद्धमपूर्वकल्पनं ज्यायः । कल्पितेऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिविरुध्येतेति चेत्-न; यागावान्तरव्यापरो. ऽपूर्वमित्यङ्गीकारात् । न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साध. नत्वमपैति । यदि व्यापारवतो यागस्य नाशे व्यापारो न तिष्ठेत् , तर्हि यागजन्या - . १. पूर्वाधिकरणेनाऽस्याऽऽक्षेपिकी सङ्गतिः। अ जै० न्या०