पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा.१.अधि.१. > यविधिः । स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः। ततो भवितुरोदनस्य प्रयोजक- व्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यत इति । अन्ये भावनापक्षा अयुक्ताः । प्रयत्नो भावनेति चेत्-न; 'रथो गच्छति' इत्यत्र तदभावप्रसङ्गात् । स्पन्द इति चेत्-न; मानसत्यागरूपे यजतावव्याप्तेः । उभयसाधरणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत्-न; शब्दभावनायामव्याप्तिः । न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वाऽस्ति । लिङ्-लेट्-लोट्तव्यप्रत्ययमात्रगता शब्दभावना । सर्वाख्यातगताऽर्थभवना। तदुक्तम्- (१) “अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यत” ॥ इति ॥ किंच स्पन्दादिवादिनोऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किन्त्वन्योत्पा- दानुकूलं स्वरूपम् । तस्मादस्मदुक्तैव भावना । यथा ‘पचति, इत्यत्रौदनफलोत्पत्त्यनु- कूला, तथा 'यजति'इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला। तस्यां च फलभावनायां प्रत्यय- वाच्यायामेकपदोपात्तत्वेन प्रत्यासन्नत्वात्प्रकृत्यर्थः करणम् । न तु द्रव्यादि, तस्य पदान्त- रोपात्तत्वेन विप्रकृष्टत्वात् । साध्यरूपोऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सन् शक्नोति फलं साधयितुम् । द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः, द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन वर्गादिफलोत्पत्तौ सत्यां येयनुकूलव्यापारात्मा कृतिशब्दा- भिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेन केनाऽपि नाऽभिधीयते, सर्वधात्वर्था- नुयायित्वात् । अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् । अस्तु तर्हि धात्वर्थ- सामान्यमेव भावनेति चेत्-न; प्रतिधात्वर्थ विलक्षणरूपत्वात् । अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् , अन्यच्च चलनस्य संयोगविभागौ प्रति । अन्यथा फलविभागानुप- पत्तेः । भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम, नैतावता प्रकृत्यर्थसा- मान्यं तद्भवति । तस्माद्विशेषरूपात्सामान्य रूपाच्च यज्यादिधातुवाच्यादन्यैवाऽऽख्या- तप्रत्ययवाच्या भावना । तथा सति 'यजेत' इत्यत्राऽऽख्यातस्य 'भावयेत्' इत्यर्थो भवति । तत्र 'किं भावयेत् , केन भावयेत् , कथं भावयेत् , इत्याकाङ्क्षायां 'स्वर्गं भावयेत्' 'यागेन भावयेत् 'अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत्' इत्येवं भाव्यकरणेतिकर्तव्यतासमर्पणेनाऽऽकाङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसं. दर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः । भाव्याद्यंशत्रयवती सेयमार्थी- भावनेत्यु- च्यते । सा सर्वाऽपि शब्दभावनाया भाव्या। विधायको लिङादिः करणम् । अर्थवा- दसम्पादिता स्तुतिरितिकर्तव्यता। सेयं शब्दभावना लिङादिभिरेव गम्यते । अर्थ- भावना तु सर्वैराख्यातप्रत्ययैर्गम्यत इत्युक्तम् । तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते । प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या। तथा च श्रूयते-“दर्शपू- र्णमासाभ्यां स्वर्गकामो यजेत" "चित्रया यजेत पशुकामः' इति । तच करणत्वमपू. । १. ते, वा. २. १. २. पृ. ३४४. चौ. सं.