पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावार्थाधिकरणम् ] द्वितीयोऽध्यायः। ७१ इदमाम्नायते-(१)“सोमेन यजेत" (२)"हिरण्यमात्रेयाय ददाति" (३)"तस्मा- त्सुवर्णं हिरण्यं धार्यम्। (४) श्येनेनाऽभिचरन्यजेत” (५)"चित्रया यजेत पशुकामः' इत्यादि । तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाचो, श्येनचित्राशब्दो कर्मवाचिनौ । तैरेतैर्द्रव्यादिशब्दैरपूर्वं प्रत्येति । कुतः ? द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् । यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूप- त्वान्न साधनं भवितुमर्हति । ततो द्रव्यादीनां फलं प्रति करणत्वाद्र्व्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते-- ब्रूमः-क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते । पचिक्रियामन्तरेण काष्ठ- स्थाल्यादीनामोदनसाधकत्वादर्शनात् ।। अतो भाव नावाचिना यजति ददातीत्याख्याते- नाऽपूर्व प्रतीयते । ननु धात्वर्थ एव भावना, तदन्या वा ? न तावद्धात्वर्थः । तस्य तां प्रति करण. त्वोक्तेः । न द्वितीयः, धात्वर्थव्यतिरिक्तायाः क्रियाया दुर्लक्ष्यत्वादिति चेत्-मैवम् ; सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् । तदुक्तमाचार्यै:- (६) "धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते । तथऽपि सर्वसामान्यरूपेणैवाऽवगम्यते" ॥ इति ॥ अन्यैरप्युक्तम्- "सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी ॥ इति ॥ 'पचति' इत्युक्ते 'पाकं करोति' इत्येतमर्थं सर्वे जनाः प्रतियन्ति । तत्र पाकः, पक्तिः पचनमित्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्व- भावः । 'करोति' इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावः । तत्र सिद्धस्व- भावद्योतनाय यथा घञ्प्रत्ययादयो विहिताः, तथा साध्यस्वभावद्योतनायाऽऽख्यातप्रत्य- ,

-

१. सोमशब्दो द्रव्यवाची । स च तद्विशिष्टं यागं लक्षयति । स चाऽप्राप्तत्वात् भावनायां करणत्वेनाऽन्वेति । एवञ्च ‘सोमवता यागेनेष्टं भावयेत् इति वाक्यार्थः । २. 'तस्मादात्रेयं चन्द्रेणेच्छन्तीति ( तां. ब्रा. ६. ६. ११.) पाठः । 'आत्रे- याय हिरण्यं ददातीति ( श. वा. ४. ३. ४. २१. ) पाठः || आत्रेयः अत्रिगोत्रो- द्भवः । तत्संप्रदान कहिरण्यकर्मकदानेन प्रकृतज्योतिष्टोमयागोप कारं कुर्यादिति वाक्यार्थः । ३. ( तै. वा. २. २. ४. .) 'हिरण्यशब्दो रजतसुवर्णोभयसाधारणः । सुवर्ण- ( हेम ) रूपं यत् हिरण्यं तद्धारणेन पुरुषः आत्मानं संस्कुर्यात् इति वाक्यार्थः । ४. परिव. बा. ३. १०. तै. सं. २. ४. ६.१. ६. तं. वा. २. १. २. पृ. ३५०. चौ. सं.