पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायांजैमिनीयन्यायमालायां [अ.२. पा. १. अधि, १. , फलत्वेन सर्वेषां पदानां फलान्वयित्वात् । अपूर्वप्रतिपादनाभावेऽपि क्रियाकारकयोः पर- स्परान्वयोऽस्त्येवेति चेत्-सत्यम् ; तथाऽपि प्रधानान्वयो लभ्येत । फलं हि प्रधान- म् , पुरुषार्थतया साध्यमानत्वादिति प्राप्ते- ब्रूमः-अपूर्वस्याऽत्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् । तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते । पदान्तरं तु तच्छेषतयाऽन्वेति । ननु यस्य पदस्याऽर्थोऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्व- विधेयत्वगुणत्वान्यभ्युपगन्तव्यानि । तथा तस्यैव शेषभूतपदान्तरार्थ प्रत्युद्देश्यत्वानुवा- द्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत्–मैवम्; (१)"उद्भिद यजेत पशुकामः” (२)"श्येनेनाऽभिचरन्यजेत' इत्यादावुद्भिदादिशब्दानां नामत्वेनाs- न्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् । तस्मा- देकमेव पदमपूर्वप्रतिपादकम् । न च धर्मभेदचिन्तां प्रस्तुतां परित्यज्य किमित्यपूर्व चिन्त्यत इति वाच्यम् ।(३) अपूर्वस्यैव धर्मत्वात् । ( इति प्रतिपदाधिकरणम् ) (द्वितीयं वर्णकम् , भावार्थाधिकरणम् ) द्वितीयं वर्णकमारचयति- द्रव्यादिशब्दतोऽपूर्वधीर्भावार्थपदादुत । द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः॥४॥ क्रियाद्वारमृते द्रव्यं फलेन न हि युज्यते । भावनावाचिनोऽपूर्वमाख्यातादवगम्यते ॥ ५॥ धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् । सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना ॥ ६ ॥ धात्वर्थः करणं तस्यां समानपदवर्णितः । द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका ॥ ७ ॥ १. तां. ब्रा. १९. ७. २. ३. २. षड्वि. वा. ३. १०. ३. 'यज्ञेन यज्ञमयजन्त देवाः, 'तानि धर्माणि प्रथमान्यासन्' इति श्रुत्युपष्टब्धं 'यो यागमनुतिष्ठति तं धार्मिकमित्याचक्षत'इति शाबर भाष्यमवलम्ब्य तत्र तत्र श्रेय- स्साधनत्वेन विहितक्रियादेरेव वार्तिककारैः धर्मत्वव्यवस्थापनात् अत्राऽपूर्वस्य धर्मत्व- कथनं तादृशक्रियाजन्यत्वेन भाक्तधर्मत्वपरमिति बोध्यम् ।