सामग्री पर जाएँ

पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावार्थाधिकरणम् ] प्रथमोऽध्यायः । ६९ . वात् । अतः सामर्थ्यात्संयुक्तप्रसूतिद्वयात्मको मध्यगतावकाशोपेतोऽञ्जलिहीतः । एव- मत्राऽपि द्रवद्रव्यस्याऽऽज्यस्य स्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः, संहतस्य पुरोडाशस्य हस्त इत्यनेन प्रकारेण स्रुवाद्या व्यवस्थिताः ॥ इति विशं सामर्थ्याधिकरणम् ॥ २० ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे प्रथमा- ध्यायस्य चतुर्थः पादः॥४॥ समाप्तश्च प्रथमोऽध्यायः ॥१॥ अथ द्वितीयाध्यायस्य प्रथमः पादः॥ प्रमाणमुपजीव्यत्वात्प्रथमेऽध्याय ईरितम् । मानाधीनस्य धर्मस्य द्वितीये भेद उच्यते ॥१॥ अनेन प्रथमद्वितीययोरध्याययोः(१)पूर्वोत्तरभाव उपपादितः ॥ (भावार्थाधिकरणे प्रथमं वर्णकम् ) (प्रतिपदाधिकरणम्) द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति- विधिवाक्ये पदैः सर्वैरपूर्वं प्रतिपाद्यते । प्रत्येकमथवैकेन, सर्वैस्तत्प्रतिपादनम् ॥ २॥ फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः । लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् ॥३॥ विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम् । विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि । कुतः ? अपूर्वस्य १. प्रथमेऽध्याय विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्य रूपाण्यष्टौ प्रमाणानि धर्मे निरूपितानि । इदानीं तत्प्रमेयभूतं धर्मखरूपं द्वितीयेऽध्याये निरूप्यते । यद्यपि धर्मप्रमाणेषूक्तेषु अर्थादेतत्प्रमाणप्रतिपाद्यो धर्म इत्येवं सामान्याकारेण धर्मस्वरूप- मवगतं, तथाऽपि कात्स्न्येन तत्स्वरूपानवगमात् इदानीं विशेषाकारेण तत्स्वरूपावगत्यै तद्गतानेकत्वरूपो भेदः प्रतिपाद्यत इति पूर्वोत्तरभावोऽवसेयः ।