पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा.४. अधि. २०. यत्वात् । “तेजो वै घृतम्' इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते, “यस्स्तूयते स विधीयत' इति न्यायात् । तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते घृतेनाऽक्ता इति । तस्मात् घृतेनैवाऽञ्जनम् ।। इत्येकोनविंशं वाक्यशेषाधिकरणम् ॥ १९ ॥ अथ विशं सामर्थ्याधिकरणम् ॥ २०॥ विंशाधिकरणमारचयति- स्रुवेणाऽथ स्वधितिना हस्तेनाऽवद्यतीत्यमी । आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः ॥ ५५॥ व्यवस्थापकराहित्यात्स्रुवाद्या अव्यवस्थिताः। व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः ॥५६॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां प्रथमाध्यायस्य चतुर्थः पादः॥ (१) “स्रुवेणाऽवद्यति” “स्वधितिनाऽवद्यति” “हस्तेनाऽवद्यतीति श्रूयते। तत्राऽवदेयेष्वाज्यमांसपुरोडाशेषु हविष्षु अमी स्रुवाद्या अवदानहेतवः संकीर्णाः। कुतः ? व्यवस्थापकस्य शब्दस्याऽभावादिति चेत्-- मैवम् ; शक्तर्व्यवस्थापकत्वात् । “आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी" इति न्यायात् । 'कटे भुङ्क्ते 'कांस्यपात्र्यां भुते' इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति- 'कट आसीनः' 'कांस्यपात्र्यामोदनं निधाय' इति । वेदेऽपि- (२)"अञ्जलिना सक्तून् प्रदाव्ये जुहुयात्' इत्यत्र यद्यपि द्विहस्तसंयोगोऽञ्जलिः, तथाऽपि गुरुदेवताप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति, तादृशेऽञ्जलौ सक्तूनामवकाशाभा- १. तत्तद्यागेषु सम्पादितेभ्यश्चरुपुरोडाशसान्नायेभ्यो हविर्यः तत्तद्देवताभ्यः प्रदा- नार्थ यत्पृथक्करणं तदवदानमित्युच्यते । तदवदानं द्रवद्रव्येषु दध्याज्यपयःप्रभृतिषु सुवेण कुर्यात् , चरुपुरोडाशादिषु कठिनद्रव्येषु हस्तेन कुर्यात् , वपामांसादौ तु स्वधि- तिना कुर्यादिति विषयवाक्यार्थः । २. ( तै. सं. ३. ३. ८. ४. ) भ्रष्टानां यवानां चूर्णः सक्तवः । तान् प्रदाव्ये दावाग्नौ अञ्जलिना विवृताकारेण संयुक्तहस्तद्वयेन जुहुयादित्यर्थः । 2