अथेकोनविंशं वाक्यशेषाधिकरणम् ॥ १६ ॥ एकोनविंशाधिकरणमारचयति- शर्करा उपधत्तेऽक्तास्तेजो वै घृतमत्र किम् । तैलादिनाऽञ्जिता अक्ता घृतेनैवाऽथवाऽञ्जनम् ॥५१॥ तैलादिनाऽपि मुख्यत्वादसंजातविरोधनात् । अप्राप्तार्थत्वतश्चाऽस्य विधेर्वादाद्वलित्वतः ॥ ५२ ॥ सामान्यमननुष्ठेयं विशषस्तु विधौ न हि । घृतेनैवाऽञ्जनं वाक्यशेषात्संदिग्धनिर्णयात् ।। ५३ ॥ अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी । बोधयन्ती विधेयत्वं घतस्य गमयेद्विधिम् ॥ ५४॥ (१) “अक्ताः शर्करा उपदधाति तेजो वै घृतम्' इति श्रूयते। मृत्तिकामिश्राः क्षुद्र- पाषाणाः शर्कराः । ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाऽञ्जनीयाः । कुतः ? अञ्जन- सामान्यवोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थवादात्प्रबलत्वात् । तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः । स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाचाऽसंजातविरोधि- त्वम्, अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम् । अर्थवादस्तु विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः । तस्मात् येन केनाऽप्यञ्जनमि. इति प्राप्ते- ब्रूमः-विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा ? नाऽऽद्यः, सामान्यस्याऽननुष्ठेयत्वात् । न द्वितीयः, घृततैलादिविशेषवाचकशब्दाभावात् । तत उक्त- रीत्या प्रबलमपि विधिवाक्यमनुष्टानयोग्ये विशेषे सन्देहजनकतया निर्णयहेतुमर्थवादमपे- क्षते, न तु तेन सह विरुध्यते । अर्थवादेऽपि घृतस्य विधिर्नाऽस्तीति चेत्-न; विधेरुन्ने- . , -- , - १. तै. वा. ३. १२. ५. 'शर्करा अक्ता उपदधाति तेजो घृतमिति तैत्तिरीयब्राह्म- णपाठः । शर्कराः–कंकड़'इति हिन्दीभाषायां प्रसिद्धाः । इयमत्र विषयशुद्धिः-यथा हि श्येनचित्सुवर्णचित्प्रभृतीनि आहवनीयाद्यग्न्याधारस्थण्डिलविशेषसम्पादकानि महानि- चयनानि इष्टकाभिः बृहदाकाराभिः कर्तव्यतया विहितानि-'इष्टकाभिरग्निं चिनुत' इति, तद्वत् सावित्रनाचिकेतारुणकेतुकप्रभृतीनि क्षुद्रचयनानि अङ्गुलिपर्वपरिमितसुवर्णनिर्मिता- भिरिष्टकाभिः कर्तव्यतया विहितानि । दारियादिना हिरण्यालाभे तु तत्स्थाने शर्करा विहिताः-'अक्ताश्शर्करा उपदधातीति । ताश्च घृतेन सिक्त्वा उपधेया इति । -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६८
दिखावट