पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. १.पा. ४.अधि. १८.

- यकः किन्त्वर्थवादः । ननुद्विध्यर्थवादयोवैयधिकरण्यभ्रमस्स्यात् । तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधा-

प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः, किन्तु दधातिधातुः प्रयु-

क्तः-(१) “एकयाऽस्तुवत प्रजा अधीयन्त' इति तत्पाठात् । बाढम् ; तथाऽपि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्भूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र तथा सृष्टिभूमता तथाडत्रापीतिभूमिगुणयोगेन सृष्टयसृष्टिसंघे सृष्टिशब्दप्रयोगः इति सप्तदशं भूमाधिकरणम् ॥ १७ ॥ अथाऽष्टादशं लिङ्गसमवायाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः । अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते ॥ ५० ॥ (२) “प्राणभृत उपदधाति' इत्यत्राऽपि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः । (३)"रेतस्येव प्राणान्दधातीत्य- स्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः । पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु प्रथममन्त्र एव प्राणभृल्लिङ्गमान्नायते-(४) "अयं पुरो. भुवस्तस्य प्राणो भौवायनः” इति । एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपि 'छत्रिणो गच्छन्ति' इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तदेवं यजमानकार्यसिद्धया- दयो गुणवृत्तिहेतवो निर्णीताः । तथा चोक्तम्- (५)"तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः । पड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ॥ इति इत्यष्टादशं लिङ्गसमवायाधिकरणम् ॥ १८ ॥ । १. ते. सं. ४. ३. १०.१ २. तै. सं. ५. ३. १. २, श. ब्रा. ८. १. १. १ ३. ते. सं. ५. २. १० ३. ते. सं. ४. ३. २. १, See also मै. सं. २. ७ १९. ५. शा. दी. १. ४. १९. पृ. ९०. निर्ण. सं. ४.