पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ सप्तदशं भूमाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः । विधेयास्ते गुणत्वेन वादो वाऽत्र गुणे विधिः ॥ ४६ ॥ अख्यातेनाभिसंबन्धादविध्यन्तरयोगतः । लिङ्गप्रकरणप्राप्तेमन्त्राणां विध्यसंभावत् ॥ ४७ ॥ ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः। यथासृष्टेत्यनेनाऽतः सृष्टीरित्यर्थवादगीः ॥ ४८ ॥ एकयाऽस्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि । सृष्टिशब्दस्तथाऽप्युक्तिः सृष्टिशब्देन भूमतः ॥ ४६॥ अग्निचयने श्रूयते—(१) “सृष्टीरुपदधातीति सृष्टिशब्दोपेता मन्त्रा यासामि- ष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । 'सृष्टिमानासामुपधानो मन्त्र' इति विगृह्य (२) "तद्वानासामुपधानः” इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् । सृष्टिशब्दोपेताश्चोपधानमन्त्राः (३) “एकायाऽस्तुवत' इत्यस्मिन्ननुवाके समाम्नाताः । (४) "ब्रह्मासृज्यत, भूतान्यसृज्यन्त' इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात् । ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतः ? 'उपदधातीत्यनेनाss ख्यातेनाऽभिसंबन्धात् । न चाऽर्थवादत्वमस्य संभवति, विध्यन्तरेण सहैकवाक्यत्वाभा- वादिति प्राप्ते- ब्रूमः-अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवग- म्यते । विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः । तथा सति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते । किंतु तान्मन्त्राननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनाऽनुवादस्तु वक्ष्य- माणार्थवादोपपत्त्यर्थः । (५)"यथासृष्टमेवाऽवरुन्धे” इति हि वक्ष्यमाणोऽर्थवादः । यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् , तदानीमर्थवादे सृष्टिशब्दप्रयोगा- मस्य विष्टुतिः, एवं तस्मिन्नेवाऽध्याये द्वादशखण्डे-'षोडशभ्यो हिङ्करोति-स तिसृभिः स द्वादशभिः स एकया, षोडशभ्यो हिङ्करोति–स एकया स तिसृभिः स द्वादशभिः, षोडशभ्यो हिङ्करोति–स द्वादशभिः स एकया स तिसृभिः”

"इत्यष्टाचत्वारि

शस्तोमस्य च विष्टुतिः दर्शितेति बोध्यम् । १. तै. सं. ५. ३. ४. ७. २. पा. सू. ४. ४. १२५ तै. सं. ४. ३. १०.१, See also मै. सं. २. ८. ६. तै. सं. ४, ३. १०.१, मै. सं. २. ८.६. ५. ते. सं. ५. ३. ४. ७. 2 M " 2 ३.