पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ४. अधि. १६. , , व्यतिरिक्तं घटादिपदार्थजातमभिदधाति । तस्मिन् घटादौ गवाश्ववत्प्राशस्त्यं नाऽस्ति । सोऽयं प्राशस्त्याभावोऽजादिषु पशुष्वस्तीत्यनेनाऽभिप्रायेण पशव एव सन्तोऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते। पूर्वत्र यजमानकार्यसिद्धिः, आग्नेये मुखजन्यत्वम् , आदित्यवत्तेजस्वित्वं च यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् । तत्प्रवृत्ति- फलं प्रस्तरादिप्रशंसा । इह त्वपशुशब्दस्याऽजादिषु प्रवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । द्विप्रकारा हि प्रशंसा-वस्तुनि विद्यमानगुणोत्कर्ष एकः प्रकारः, स्ता- वकेन शब्देन सम्पादितो गुणोत्कर्षोऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षों लोक- सिद्धो यः सोऽत्र निमित्तम् । 'अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यप- शवः सम्पन्नाः । ईदृशो गावश्वयोर्महिमा' इति स्तुतिफलम्। तस्मात् “अपशवो वै, इत्यर्थवादः । अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः-(१) “अयज्ञो वा एष योऽसामा', इत्येकमुदाहरणम् । (२)"असत्रं वा एतद्यदच्छन्दोमम्” इत्यपरमुदाहरणम् । अग्नि- होत्रदर्शपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति। ईदृशः साम्नो महिमा । छन्दो. मशब्देन चतुर्विंशः, चतुश्चत्वारिंशः, अष्टाचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगतीछन्दोभिमायमनत्वात् । तेषां च विष्टुतिः(३) सामब्राह्मणे द्रष्टव्या । अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोमरहितत्वादसत्रं भवति । ईदृशश्छन्दोमानां महिमा इत्येवं स्तावकत्वादर्थवादत्वम् ॥ इति षोडशं प्रशंसाधिकरणम् ॥ १६ ॥ , । १. तै. सं. १. ५. ७. १. यस्मिन् कर्मणि सामानि न सन्ति तस्य यज्ञत्वमेव नाऽस्तीत्यर्थः। २. ( तै. सं. ७. ४. २. ३.) यस्मिन् सोमयागे त्रिवृदादिस्तोमानां स्थाने चतुर्वि- शतिः, चतुश्चत्वारिंशत् , अष्टाचत्वारिंशद्वा स्तोमा भवन्ति स सोमयागः छन्दोमशब्दे- नाऽभिधीयते । गायत्र्यादिछन्दस्समसंख्याकस्तोमसाध्यस्तोत्रयुक्तत्वं तत्र प्रवृत्तिनि- मित्तम् । ३. ताण्डयमहाब्राह्मणे तृतीयाध्याये अष्टमखण्डे—“अष्टाभ्यो हिङ्करोति-स तिसृभिः स चतसृभिः स एकया, अष्टाभ्यो हिङ्करोति—स एकया स तिसृभिः स चत- सृभिः, अष्टाभ्यो हिङ्करोति–स चतसृभिः स एकया स तिसृभिः' इति चतुर्विंशस्तो- मस्य विष्टुतिः दर्शिता । तथा नवमखण्डे–“पञ्चदशभ्यो हिङ्करोति-स तिसृभिः स एकादशभिः स एकया, चतुर्दशभ्यो हिङ्करोति–स एकया स तिसृभिः स दशभिः, पञ्चदशभ्यो हिङ्करोति–स एकादशभिः स एकया स तिसृभिः” इति चतुश्चत्वारिंशस्तो- "