पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशंसाधिकरणम् ] प्रथमोऽध्यायः। ६३ . छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम् , अजः पशूनाम् , तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त' इति । तस्मात् आग्नेयशब्दः स्तावकः ॥ एवम्-(१)ऐन्द्रो राजन्यः वैश्यो वैश्वदेवः' इत्यादिषु द्रष्टव्यम् ॥ इति चतुर्दशं जात्यधिकरणम् ॥ १४ ॥ " अथ पञ्चदशं सारूप्याधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः । द्वार चाक्षुषसारूप्यं घृताक्ते तैजसेऽस्ति तत् ।। ४२ ॥ आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपेऽप्यस्ति, घृताक्तस्य यूपस्य तेजस्वित्वाध्य- वसायात् । तत आदित्यशब्देन यूपः स्तूयते । एवं (२)“यजमानो यूपः' इत्यत्र चक्षुर्गम्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ इति पञ्चदशं सारूप्याधिकरणम् ॥ १५ ॥ अथ षोडशं प्रशंसाधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम् । अजादिष्वपशुत्वं यद्गुणो वादोऽथवाऽस्तु तत् ॥४३॥ स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् । अशक्यत्वानिषेधस्य घटाद्यर्थाभिधायिना ॥४४॥ पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः । लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः॥४५॥ इदमाम्नायते—(३) “अपशवो वा अन्ये गोअश्वेभ्यः, पशवो गोअश्वाः” इति । तत्राऽजादिषु श्रूयमाणं यदपशुत्वं तस्याऽर्थवादत्वं न सम्भवति, पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् । ततः पशुकार्यनिषेधरूपो गुणो विधीयत इति चेत्- मैवम् ; अजादिपशुविधिवैयर्थ्यप्रसङ्गेन निषेद्धुमशक्यत्वात् , अपशुशब्दः पशु- १. तां. बा. १५. ५. ८. २. का. सं २६.६. ३. ते सं. ५. २. ९. ४. ,