पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ सविस्तरायां जैमिनीयन्यायमालायां [ अ. १. पा. ४. अधि.१४. रूपो गुणो विधीयते । एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षणकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति । न चाऽत्र पूर्वन्यायन स्तुतिः सम्भवति, अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् । “वायुर्वे क्षेपिष्ठा देवता" "ऊर्जोऽवरुध्यै” इत्यादिवत्स्तुतिरिति चेत्-न; क्षिप्रत्वादिधर्मवत्कस्यचिदुत्क- कर्षस्याऽप्रतीतेः । तस्मात् नामगुणयोरन्यतरत्वमिति प्राप्ते- ब्रूमः-गोमहिषयोरिवाऽर्थभेदत्याऽत्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् । गुणपक्षे तु-अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् । तस्मात् विधेयः प्रस्तरो यजमानशब्देन स्तूयते। यथा 'सिंहो देवदत्तः' इत्यत्र सिंहगुणेन शौ- र्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । एवं(१) “यजमान एककपालः” इत्यादिषु द्रष्टव्यम् ॥ इति त्रयोदशं तत्सिध्यधिकरणम् ॥ १३ ॥ - अथ चतुर्दशं जात्यधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- अग्नेयो ब्राह्मणोऽत्रापि पूर्ववत्सर्वनिर्णयः । द्वारं तु मुखजन्यत्वमाग्नेयत्वेन संस्तवे ॥४१॥ इदमाम्नायते-(२) “आग्नेयो वै ब्राह्मणः” इति । अत्राऽत्यन्तप्रसिद्धार्थभेदा- दाग्नेयशब्दो न ब्राह्मणस्य नामधेयम् । नाऽप्यग्निदेवतारूपो गुणो विधीयते, 'आग्नेयं सूक्तम्' 'आग्नेयं हविः' इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । न हि ब्राह्मणः सूक्तम् , नाऽपि हविः। अतः सम्बन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाऽग्निसम्बन्धः, तथाऽत्यग्निसम्बन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चाऽग्निब्राह्मणये मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते—(३)"प्रजापतिरकाम- यत प्रजायेयेति, स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवताऽन्वसृज्यत, गायत्री , १. ते. ब्रा. १. ६. ३, मै. सं. १. १०. ७. २. तै. सं. २. ३. ३. ३. ३. (तै.सं. ७.१.१.) सृष्टयादौ प्रजापतिरेकाकी अमन्यत-यदहं प्रकर्षेण जायेयं जगदात्मना बहुर्भवेयमिति। एवं कामयमानस्सः स्वस्य मुखात् त्रिवृतं-ऋनवकात्मक स्तोमं असृजत् । तस्य स्तोमस्य पश्चादग्निरपि सृष्टोऽभवत् । गायत्र्याख्यं छन्दः, रथन्तरसंज्ञकं साम, मनुष्याणां मध्ये ब्राह्मणश्चाऽसृज्यन्त (तेन प्रजापतिना)इत्यर्थः ।