पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तत्सिध्यधिकरणम् ] प्रथमोऽध्यायः। ६१ अत्र गुरुमतमाह- अगुणत्वादनामत्वादमन्त्रत्वादनन्वये । अष्टत्वाद्यप्रमाणं चेन्नाऽर्थवादतयाऽन्वयात् ॥ ३७॥ उक्तरोत्या गुणत्वं नामत्वं च न सम्भवति । उत्तमपुरुषामन्त्रणाद्यभावान्न मन्त्र- त्वम् । अतोऽष्टाकपालादीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत्-मैवम् ; स्ताव- कत्वेनाऽन्वयस्योक्तत्वात् ॥ इति द्वादशं वैश्वानराधिकरणम् ॥ १२ ॥ - अथ त्रयादशं तत्सिध्यधिकरणम् ।। १३ ।। त्रयोदशाधिकरणमारचयति- यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः । सामानाधिकरण्येन स्यादेकस्याऽन्यनामता ॥ ३८ ॥ गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते । अंशांशित्वाद्यभावेन पूर्ववन्नाऽत्र संस्तुतिः॥ ३९ ॥ अर्थभेदादनामत्वं गुणश्चेत्प्रहियेत सः । यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ ४०॥ इदमाम्नायते-(१)"यजमानः प्रस्तरः” इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयम् , प्रस्तरस्य वा यजमानशब्दो नामधेयम् । कुतः ? 'उद्भिदा यागेने त्या- दाविव सामानाधिकरण्यादित्येकः पक्षः। गुणविधिरित्यपरः पक्षः। तदाऽपि यजमानकार्ये जपादौ प्रस्तरस्याऽचेतनस्य सामर्थ्याभावाद्गुणत्वं नाऽस्ति । प्रस्तरकार्ये स्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमान- १. ( ते. सं २. ६. ५. ३, मै. सं. ३. ८. ६.) 'उत्तरं बर्हिषः प्रस्तरं सादयती' त्यस्य विधेश्शेषोऽयम् । दर्शपूर्णमासयोरुपयोगार्थ लूनानां बर्हिषां यः प्रथमो मुष्टिः स प्रस्तर इत्युच्यते । तानि मुष्टिपरिमितानि वहींषि वेद्यामास्तीर्य तदुपरि पुरोडाशा- ज्यादीनि हवींषि स्थापनीयानि । तदर्थ वेद्यामास्तीर्यमाणः प्रस्तरः नाऽनावृतायां वेदी आस्तीर्यः, किन्तु प्रथमतो लौकिकैः कुशैर्वेदिमास्तीर्य तदुपरि प्रस्तर आस्तर- णीय इति विधिवाक्यार्थः । अतो यजमानवद्यागसाधनत्वादतिप्रशस्तः प्रस्तर इति विषयवाक्यार्थः। ६ जै० । > न्या