पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

, अथ द्वादशं वैश्वानराधिकरणम् ॥ १२ ॥ (१)द्वादशाधिकरणमारचयति- यद्द्वादशकपालेष्टेर्वैश्वानर्या अनन्तरम् । श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ ३४ ॥ अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् । द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ ३५॥ वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते । नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः॥ ३६ ॥ काम्येष्टिकाण्डे श्रूयते-(२)"वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते, यदष्टाक- पालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवाऽस्मिन् तेजो दधाति, यद्दशकपालो विराजेवाऽस्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवाऽ- स्मिन्निन्द्रियं दधाति, यवादशकपालो जगत्यैवाऽस्मिन् पशून्दधाति, यस्मिजात एता- मिष्टिं निर्वपति पूत एव (स) तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति" इति । अत्रा- ऽष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्या- ऽग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः। नाऽत्र द्वादशकपालशब्दः संख्यापरः, किन्तु पुरोडाशद्रव्यपरः, द्वादशसु कपालेषु संस्कृतः इति व्युत्पत्तेः । एवमष्टाकपालादिशब्दा अपि । तथा सति द्रव्यस्य द्रव्यान्तरे- ऽनन्तर्भावान्नामधेयस्य निमित्तं नाऽस्तीति चेत्-एवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम् । न चोत्पत्तिंशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यम् । ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः । अयमप्यनुपपन्नः बहूनां गुणानां विधौ वाक्यभेदापत्तेः । न च भिन्नान्येवैतानि वाक्यानीति वाच्यम्। “वैश्वानरं द्वादशपालं निर्वपेत्” इति विहितस्य “यस्मिञ्जात एतामित्युपसंहारेण वाक्यैकत्वावगमात् । तस्मादंशैरष्टाकपालादिभिरंशी द्वादश- कपालः स्तूयते। 3 १. पूर्वाधिकरणोक्तनामत्वापवादादापवादिकी सङ्गतिः । २. ( तै. सं. २. २. ५. ३. ) पुत्रे जाते पुत्रोत्पत्तौ निमित्तभूतायां वैश्वानरदेव- ताकेन द्वादशकपालसंस्कृतपुरोडाशेन पुत्रगतपूतत्वादिकं भावयेदित्यर्थः । यस्माद्द्वाद- शकपालस्यांऽशः अष्टसु कापालेषु संस्कृयते, तस्मादेनं पुत्रं गायत्र्या ब्रह्मवर्चसेन च शोधयति पिता । एवं 'यन्नवकापाल' इत्यादिषु द्रष्टव्यम् ।