पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैश्वदेवाधिकरणम् ] प्रथमोऽध्यायः। ५९ । " सन्निधाविदमाम्नायते-(१)"वैश्वदेवेन यजेत" इति तत्राऽग्नेयादीन्यागान् 'यजेत' इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्या- मिक्षायां विश्वे देवाः प्राप्ताः, तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत् तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याऽभिधेयत्वाद्र्व्यदेवतयोरभावेन यागस्याऽत्र स्वरूपासम्भ- वाच्छ्रूयमाणो विधिरनर्थकः स्यात् । तस्मात् गुणविधिरिति प्राप्ते- ब्रूम:--उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् ‘यजेत' इत्यनूद्याऽष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वासम्भवेऽपि नामोपदेशवैयर्थ्यम् ,(२) "प्राचीनप्रवणे वैश्वदेवेन यजेत' इत्यादिषु वैश्वदेवशब्देनैकेनैवाऽष्टानां संघस्य व्यवहर्त- व्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा-आमिक्षायागे विश्वेषां देवानामिज्य- मानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथवा 'विश्वेदेवा अष्टानां कर्तारः' इति वैश्वदेवत्वम् । तथा च ब्राह्मणम्-(३)“यद्विश्वे देवाः समय- जन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्” इति। देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात्प्रवलाः, विश्वे देवा उत्पन्नशिष्टत्वाद्दुर्बलाः । तस्मात्- वैश्वदेवशब्दः कर्मनामधेयम् ॥ अत्र गुरुमतमाह- गुणनामत्वसंदेहादप्रमा चोदनेति चेत् । नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ ३२ ॥ स्पष्टोऽर्थः ॥ इत्येकादशं वैश्वदेवाधिकरणम् ॥ ११ ॥ १. (ते. ब्रा. १. ४. १०. १.) यद्यपि “अग्नेयमष्टाकपालमित्यादीनि संहितायां पठितानि, वैश्वदेववाक्यन्तु ब्राह्मणभाग इति स्थलभेदो दृश्यते, तथाऽपि संहितायां विहितस्यैव यागस्य तदवशिष्टाङ्गकलापविधानार्थं पुनर्ब्राह्मणे तेषां प्रकरणैक्यमनुसन्धाय विचारो बोध्यः । २. ( मै. १. १०. ७. ) यत्र भूमौ प्राचीनो देशः प्रतीचीनापेक्षया निम्नो वर्तते तत्र वैश्वदेवपर्वणा यजेतेत्यर्थः । ३. ( ते. ब्रा. १. ४. १०. १.) यस्मात् विश्वेदेवा यागाष्टकमिदमकुर्वन् तस्मात् विश्वेदेवकृतत्वात् आग्नेयादियागाष्टकस्य वैश्वदेवशब्दवाच्यत्वमिति वाक्यार्थः । यद्यपि षष्ठे तिर्यगधिकरणे ( पू. मी. ६. १. २. ) देवतानामपि कर्मस्वधिकरो निराकरिष्यते, तथाऽपि प्रशंसाथ प्रवृत्तस्याऽप्यर्थवादस्याऽऽनुषङ्गिकतया प्रवृत्तिनिमित्तप्रयोजकत्वमपि भवितुमर्हतीत्यभिप्रायेणेदमुदाहृतं ग्रन्थकारेण ।