पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ सविस्तरायां जैमिनीयन्यायमालायां [अ.१. पा, ४. अधि, ११ यणीया । आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः । चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः । सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्म- थितः । तेनेष्टकाः पच्यन्ते । यथा पुराणनूतनयोऽतयोर्नवनीतजन्यत्वे समानेऽपि योगरूढ्या नूतनमेव 'नावनीतम्' इति व्यवह्रियते, तद्वत् ॥ इति दशमं निर्मन्थ्याधिकरणम् ॥ १० ॥ , अथैकादशं वैश्वदेवाधिकरणम् ॥ ११ ॥ (१)एकादशाधिकरणमारचयति- चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके । वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा ॥ २६ ॥ नामत्वे रूपराहित्यादविधिर्गुणता ततः । अग्न्यादिभिर्विकल्प्यन्ते विश्वेदेवास्तु सप्तसु ॥ ३० ॥ अनूद्याऽष्टा यजेतेति तत्संघे नाम वर्णितम् । अविधित्वेऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ ३१ ।। इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी। निरुक्तिर्न विकल्पः स्यादुत्पत्युत्पन्नशिष्टतः ॥ ३२॥ चतुर्मास्ययागस्य चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासः, साकमेधः, शुनासी- रीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः-(२)"आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम् , सावित्रं द्वादशकपालम् , सारस्वतं चरुम् , पौष्णं चरुम् , मारुतं सप्त- कपालम् , वैश्वदेवीमामिक्षाम् , द्यावापृथिव्यमेककपालम्' इति । तेषामष्टानां यागानां १. पूर्वमाग्नेयाधिकरणे तत्प्रख्यन्यायासम्भवेनाऽऽग्नेयशब्दस्य गुणविधित्वे साधिते, अनन्तरं तत्प्रसङ्गात् बर्हिराज्यादिद्रव्यनामविचारःप्रवृत्तः । तदनन्तरं 'यत्प्रसङ्गेन यदागतं तत्समाप्तौ तबुद्धिस्थं जायत' इति न्यायेनाऽऽग्नेयाधिकरणसिद्धान्ताभिहितगुणविधित्वे बुद्धिस्थेऽत्राऽपि तत्प्रख्यन्यायाक्षेपेण गुणविधित्वपूर्वपक्षकरणादापवादिकी सङ्गतिः । (तैः सं. १. ८. २, See also मै. सं. १. १०. १, क. सं. ९. ४.) अत्र निर्वपतिशब्दो यागलक्षकः । लिङथें लेट् । अग्निदेवताकेन अष्टाकपालपुरोडाशद्रव्य- कयागेनेष्टं भावयेदिति तदर्थः। एवमुत्तरत्राऽपि “सौम्यं चरुमित्यादिषु सप्तसु वा- क्येषु निर्वपतिपदानुषङ्गेण वाक्यार्थोऽवगन्तव्यः । . २.