पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निर्मन्थ्याधिकरणम् ] प्रथमोऽध्यायः। ५७ - श्वकर्णशब्दवच्च रूढो न भवति। योगस्तु व्याकरणेन क्लुप्तः । प्रोपसर्गादुक्षसेचन इत्यस्माद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् । तस्मात्-प्रोक्षणीशब्दो यौगिकः । (१)घृतादेः प्रोक्षणत्वं प्रयोजनम् ॥ इति नवमं प्रोक्षण्यधिकरणम् ॥ ९ ॥


अथ दशमं निर्मन्थ्याधिकरणम्॥ १० ।। (२)दशमाधिकरणमारचयति- रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् । आद्यौ पूर्ववदन्त्योऽचिरजातेर्नावनीतवत् ॥ २८ ॥ अग्निचयने श्रूयते—(३)“निर्मन्थ्येनेष्टकाः पचन्ती” ति ।तत्र निर्मन्थ्य- शब्दस्य स्वार्थे कीदृशी वृत्तिरिति संशये-बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्या- द्वह्निजातौ रूढिरित्येकः पक्षः। प्रोक्षणीशब्दवद्रूढेरक्लृप्तत्वादरणिनिर्मन्थनजन्यत्वाच्च योग इति पक्षान्तरम् । लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्र- १. अस्ति सोमारौद्रश्चरुः मैत्रायणीयसंहितायां काम्येष्टिकाण्डे विहितः-'सोमा- रौद्रं चरुं निर्वपेच्छुक्लानां व्रीहीणामि'( मै. सं. २. १. ५. )ति । 'उत्तानानि पात्राणि प्रोक्षतीति प्रकृतौ दर्शपूर्णमासयोः पात्रप्रोक्षणमद्भिर्विहितम् । अत्र च तासामपां स्थाने घृतं विहितं 'घृतं प्रोक्षणम' ( मै. सं. २. १. ५.) ति । एवञ्च प्रकृतावद्भिः कर्तव्यं प्रोक्षणमत्र घृतेन कर्तव्यम् । तत्र च ‘प्रोक्षणीरासादये (ते. ब्रा. ३. २. ७. )ति मन्त्रः प्रोक्षणकाले पठनीयत्वेन विहितः । स चाऽतिदेशेनाऽत्राऽऽगतः। एवञ्च यदि प्रोक्षणीश- ब्दो अप्त्वजातिवाची स्यात् , तदाऽत्र प्रोक्षणसाधनतावच्छेदकघृतत्वजातेरेव प्रकाशनी- यत्वात् 'प्रोक्षणीरासादयेति मन्त्रे प्रोक्षणीशब्दस्थाने घृतशब्दं प्रक्षिप्य 'घृतमासादयेति मन्त्रः पठनीयः । संस्कारवाचित्वे 'प्रोक्षणीरासादयेत्यविकृतः प्रयोगः । यौगिकत्वे तुअत्र घृतस्यैव प्रोक्षणसाधनत्वात् 'प्रोक्षणमासादयेत्येव प्रयोगः कर्तव्य इति फलभेद इति भावः । २. पूर्वाधिकरणपूर्वपक्षसिद्धान्तहेत्वोरत्र तुल्यत्वादातिदेशिकी सङ्गतिः । ३. “य एवं विद्वानग्नि चिनुत" इति वाक्येनाऽऽहवनीयाद्यग्न्याधारत्वेन चयनं विहितम् । तच्च चयनं केन कर्तव्यमिति साधनाकांक्षायां “इष्टकाभिरग्निं चिनुत' इत्य- नेन विधिना तत्साधनत्वेनेष्टका विहिताः । ताश्चेष्टका अग्निना पक्तव्याः। तत्राऽयं विधिः-"निर्मन्थ्येनेष्टकाः पचन्तीति याः चयनसाधनीभूता इष्टकाः, ताः निर्मन्थ्येन विजातीयारणिद्वयसंयोगरूपव्यापारजन्येनाऽग्निना पक्तव्या इति विषयवाक्यार्थः ।