पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा.४. अधि. ९. प्रयोजनं तु-(१)“बर्हिषा यूपावटमवस्तृणाति' इत्यत्र विना संस्कारेण स्तरणसिद्धिः ॥ अत्र गुरुमतमाह- बर्हिरादौ निमित्तस्य दुर्वचत्वान्न मेति चेत् । जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा॥२५॥ स्पष्टोऽर्थः॥ इत्यष्टमं बर्हिराज्याधिकरणम् ॥ ८ ॥ 2 अथ नवमं प्रोक्षण्यधिकरणम् ॥ ६॥ (२)नवमाधिकरणमारचयति- प्रोक्षणीः संस्कृतिर्जातिर्योगो वा, सर्वभूमिषु । तथोक्तेः संस्कृतिः, जातिस्स्याद्रूढे प्रबलत्वतः ॥ २६ ॥ अन्योन्याश्रयतो नाऽऽद्यो न जातिः कल्प्यशक्तितः। योगः स्यात्क्लुप्तशक्तित्वात्कृलप्तिर्करणाद्भवेत् ॥ २७ ॥ दर्शपूर्णमासयोः श्रूयते—(३)"प्रोक्षणीरासादये” ति। तत्र प्रोक्षणीशब्दस्याऽभि- मन्त्रणासादनादिसंस्कृतिः प्रवृत्तिनिमित्तम् । कुतः ? सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृता- नामेवाऽपां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः। लोके जलक्रीडायां 'प्रोक्षणीभिरुद्वेजिताः स्मः' इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरा- दिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् । न च 'प्रकर्षणोक्ष्यत आभिः इति योगोऽत्र शङ्कनीयः । रूढेः प्रबलत्वादिति पक्षान्तरम् । तत्र न तावत्संस्कारो युक्तः । अन्योन्याश्रयत्वात् । विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः । तत्प्रवृत्तौ सत्यां प्रोक्षणीश- ब्देनाऽऽपोऽनूद्याऽभिमन्त्रणसिद्धिरिति । नाऽपि जातिपक्षो युक्तः । उदकजातौ प्रोक्षणी- शब्दस्य वृद्धव्यवहारे पूर्वमक्लृप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् । ततो गोशब्दवद- १. यूपस्थापनार्थ यो गर्तः खन्यते स यूपावटः । तं बर्हिषा स्तृणीयादित्यर्थः । २. पूर्वाधिकरणेनाऽस्याऽपवादिकी सङ्गतिर्द्रष्टव्या । ३. ( ते. ब्रा. ३. २. ५. ) हे अग्नीत् यागीयपात्रहविःप्रोक्षणक्रिया अपः आहवनीयस्योत्तरदेशे स्थापयेत्यर्थः । १४.