पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बर्हिराज्याधिकरणम् ] प्रथमोऽध्यायः । ५५ अत्र गुरुमतमाह- यदाग्नेय इति प्रोक्तं न मानं विध्यसम्भवात् । इति चेन्न, विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ २२ ॥ उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्यभेदाच्च विध्यसम्भवादप्रामाण्यमिति पूर्वपक्षः । गुणद्वयविशिष्टकर्मविधिसम्भवात्प्रामाण्यमिति सिद्धान्तः ॥ इति सप्तममाग्नेयाधिकरणम् ॥ ७ ॥ अथाऽष्टमं बर्हिराज्याधिकरणम् ॥ ८॥ (१)अष्टमाधिकरणमारचयति- बर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः । जात्यर्था वा, शास्त्ररूढेस्ते स्युः संस्कारवाचिनः॥ २३ ॥ जाति त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः । विनाऽपि संस्कृति लोके दृष्टत्वाज्जातिवाचिनः ॥ २४ ॥ दर्शपूर्णमासयोः श्रूयते-(२) "बर्हिर्लुनाति'(३) “आज्यं विलापयति"(४) "पुरोडाशं पर्यग्निकरोति" इति । अत्र बर्हिरादिशब्दानां शास्त्रे सर्वत्र संस्कृतेषु तृणा- दिषु प्रयोगात् , पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात् , यूपाहवनीयादिशब्द- वत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत्- मैवम् ; अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् । यत्र यत्र बहिर्रादिशब्दप्रयोगः, तत्र तत्र जातिरित्यस्या व्याप्तेर्लोके वेदे च नाऽस्ति व्यभिचार । संस्कारव्याप्तेस्तु लौकि- कप्रयोगे व्यभिचारो दृश्यते। क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते– 'बर्हिरादाय गावो गताः' इति, 'क्रय्यमाज्यम्' इति, 'पुरोडाशेन मे माता प्रहेलकं ददातीति च । तस्माज्जातिवाचिनः । १. सापवादे कर्मनामविचारे समाप्ते प्रसङ्गाद्वर्हिराज्यादिद्रव्यनामविचारः क्रियत इति प्रासङ्गिकी सङ्गतिः । २. ते. ब्रा ३. २. २. ४. विलापनं कठिनस्य द्रवीकरणम् । ४. श, ब्रा. १. १. ६. १३. पर्यग्निकरणं नाम ज्वलदङ्गारैः पुरोडाशस्योपरि प्रादक्षिण्येन भ्रामणम् । 'परितोऽग्निर्यस्य सः पर्यग्निः । परितोऽग्निमन्तं पुरोडाशं करोतीत्यर्थ इति शतपथव्याख्यायां माधवाचार्याः । ।