पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ सविस्तरायां जैमिनीयन्यायमालायां [अ. १.पा. ४.अधि. ७. प्रसङ्गात् । द्रव्येण यागं कुर्यात् इत्येकं वाक्यम् , यागेन फलं कुर्यात् इत्यपरम् । तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथोक्तं द्रव्यं निमित्तीकृत्याऽग्निहोत्रशब्द- वत्कर्मनामधेयम् ॥ इति षष्ठं वाजपेयाधिकरणम् ॥ ६ ॥ अथ सप्तमाग्नेयाधिकरणम् ॥ ७॥ (१)सप्तमाधिकरणमारचयति- यदाग्नेयोऽष्टाकपाल इति नाम गुणोऽथवा । नामाऽग्निहोत्रवत्, मैवं; नामत्वे देवता न हि ॥ २० ॥ मन्त्रोऽपि नेह प्रत्यक्षस्तद्धितादेवताविधिः । देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ २१ ॥ दर्शपूर्णमासयोः श्रूयते-(२) “यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति । तत्र यथाऽग्निहोत्रशब्दः 'अग्नये होत्रमत्रे' त्यमुमर्थ निमित्तीकृत्य कर्मनामधेयम् , तथाऽऽग्नेयशब्दोऽग्निसम्बन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत्- मैवम् , नामत्वे देवताराहित्यप्रसङ्गात् । अग्निहोत्रे तु (३)“अग्निर्ज्यॊतिर्ज्यॊति- रग्निः स्वाहेति सायं जुहोती” त्यनेन वचनेन मन्त्रः प्रत्यक्षविहित इति मान्त्र- वर्णिकी देवता लभ्यते। इह तु न तादृशो मन्त्रोऽस्ति । आग्नेयशब्दस्तु देवतां विधातुं शक्नोति । 'अग्निर्देवताऽस्ये' इत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्य- देवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् । कर्मणोऽप्राप्तत्वेन गुणद्वयविशिष्ट- स्य कर्मण एकेन वाक्येन विधानात् । तस्मादाग्नेयशब्देन देवतागुणो विधीयते ॥ , १. एवं तावन्निमित्तचतुष्टयात्सार्वत्रिकं नामधेयत्वमाक्षेपसमाधानाभ्यां साधितम् । अधुना तदपवादः प्रस्तूयत इत्यापवादिकी सङ्गतिः । २. ( तै. सं. २. ६. ३. ) अग्निर्देवता अस्येत्याग्नेयः, अष्टसु कपालेषु संस्कृतः पुरोडाशः अष्टाकपालः । स चाऽयमग्निदेवताकपुरोडाशद्रव्यको यागः दर्शात् पूर्णमासाच्च न च्यवत इत्यच्युतः । अग्नीषोमीयादियागो दर्शाच्च्यवते, ऐन्द्रादिः पूर्णमासाच्च्यवते । आग्नेययागस्तु नोभयस्माच्च्यवत इत्यर्थः । तथाचाऽग्निदेवताकपुरोडाशद्रव्यकयागेनेष्टं भावयेदिति वाक्यार्थः । ३. ते. ब्रा. २. १. ९. २.