पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाजपेयाधिकरणम् ] प्रथमोऽध्यायः। ५३ 3 । त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः। वाजपेयेति शब्दोऽपि कर्मनामाऽग्निहोत्रवत् ॥ १६ ॥ (१)“वाजपेयेन स्वाराज्यकामो यजेते'त्यत्र वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चाऽन्नं पेयं सुराद्रव्यम् । तच्चाऽत्र गुणः, सुराग्रहाणामनुष्टे. यत्वात् । ननु गुणत्वे वाजपेयगुणवता यागेन स्वाराज्यं भावयेत् इति मत्वर्थलक्षणा प्रसज्येत । मैवम् ; सकृदुच्चरितस्य यजेत इत्याख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण सम्बन्धाङ्गीकारात् । वाजपेयेन द्रव्येण स्वाराज्याय यजेत इत्येवमुभयसम्ब- न्धः । ननु गुणसम्बन्धे सति वाजपेयगुणेन यागं कुर्यात् इति यजेः कर्मकारकत्वं भवति, फलसम्बन्धे तु यागेन स्वाराज्यं सम्पादयेत् इति करणकारकत्वम् , ततः कथं तदुभयसम्बन्ध इति चेत् ? नाऽयं दोषः; यजेस्साधारणत्वेन द्विरूपत्वसम्भवात् । यजेत इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता । तयोस्तु समभिव्याहारात्सम्बन्धमात्रं गम्यते । तच्च कर्मत्वकरणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते । अतः साधारणस्य यजेरुभा- भ्यां युगपत्सम्बन्धे सति यथोचितसम्बन्धविशेषः पर्यवस्यति । एवं तन्त्रेण सम्बन्धा- ङ्गीकारे वाजपेयद्रव्येण यागं कुर्यात् इत्यर्थस्य लभ्यमानत्वाद्गुणविधित्वेऽपि नाऽस्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात् , तर्हि तान्यपि वाक्यान्यत्रोदा. हृत्य तदीयस्सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते- ब्रूमः—यजेस्तन्त्रेणोभयसम्बन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं, विधेयत्वं गुणत्वं, चेत्येकं त्रिकम् । उद्देश्यत्वम् , अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रि- कम् । तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः । उपादेयत्वादयस्त्रयः साधनभूत- यजिनिष्ठा धर्माः । फलमुद्दिश्य यजिरुपादीयते । फलमनूद्य यजिर्विधीयते । फलं प्रधा- नम् । यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानसापेक्षो विषयत्वाकारः। यजेरुपा- देयत्वं नामाऽनुष्टीयमानताकारः । तावुभौ मनश्शरोरोपाधिकौ धर्मौ । अनुवाद्यत्ववि. धेयत्वधर्मौ तु शब्दोपाधिको । ज्ञातस्य कथनमनुवादः । अज्ञातस्याऽनुष्ठेयत्वकथनं विधिः। फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे । एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं, यागस्योपादे- यत्वादित्रिकं व्यवतिष्ठते, तथा यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभावपर्यालोच- नायां यागस्योद्देश्यत्वादित्रिकम् , वाजपेयद्रव्यस्योपादेयत्वादित्रिकं च पर्यवस्यति । ततो यागस्य फलद्रव्याभ्यां युगपत्सम्बन्धे सति विरुद्धं त्रिकद्वयमापद्यते । ननु तर्हि मा भूत्तन्त्रेणोभयसम्बन्धः, पृथक्सम्बन्धाय यजिरावर्त्यतामिति चेत्-न; वाक्यभेद- , , १. वाजपेयाख्येन सोमयागेन स्वाराज्यरूपं फलं भावयेदित्यर्थः ।