पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ४.अधि. ६. . ऽऽदत्ते यमभिचरति श्येनेनेति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते । तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येनशब्दस्याऽभिचार. कर्मनामत्वम् । (१)“सन्दशेनाऽभिचरन्यजेत” “(२)गवाऽभिचर्यमाणो यजेत' इत्यत्र सन्दंशगोशब्दयो मत्वं श्येनशब्दवद्रष्टव्यम् । (३)“यथा सन्दंशेन दुरादानमादत्ते" (४)“यथा गावो गोपायन्ति" इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ इति पञ्चमं तद्व्यपदेशाधिकरणम् ॥ ५॥ अथ षष्ठं वाजपेयाधिकरणम् ॥ ६॥ (५)षष्ठाधिकरणमारचयति- यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा, गुणता तन्त्रयोगाद्गुणफलद्वये ॥ १६ ॥ साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ १७ ॥ उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ १८॥ ऽभिचरन्निति विधिवाक्यस्थश्येनपदस्य कर्मवाचित्वम् । तच्च कर्म सोमयागविशेषरू- पमिति विवेक्तव्यम् । १. (षड्वि.वा. ३. १०.)सन्दंशसंज्ञकेन यागेन शत्रुवधरूपं फलं भावयेदित्यर्थः २. अभिचर्यमाणः वैरिणा मार्यमाणः गवा तत्संज्ञकेन यागेन स्वसंरक्षणं सम्पादये- दित्यर्थः । ३. सन्दंशशब्दश्च सन्दश्यते पार्वद्वये निपीड्य दुरादेयं तप्तायोगोलकादिक परि अनेनेति व्युत्पत्त्या दुरादेयादानसाधनकिशेषे ( संडसीति हिन्दीभाषायां ) प्रसिद्धः । यथा चैतादृशसाधनविशेषेण सन्दंशेन दुरादेयं वस्तु पुरुषः गृह्णाति, एवम. नेनाऽपि सन्दंशाख्येन क्रतुना दुरादेयं शुत्रुमादत्ते यजमान इत्यर्थः । ४. यथा वा गावः परकृताभिघातात्स्ववत्सान् पालयन्ति, एवमयमपि गोसंज्ञकः क्रतुः परकृतादभिचारात् यजमानं पालयतीत्यर्थः । ५. अबोद्भिदायधिकरणचतुष्टयोक्तमत्वर्थलक्षणादिदोषा आक्षिप्य समाधीयन्त इत्या- क्षेपिकी सङ्गतिः। । ,