पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्वयपदेशाधिकरणम् ] प्रथमोऽध्यायः । ५१ अनुष्ठानादूर्ध्वं धात्वर्थस्य सिद्धत्वाकारेण करणत्वेऽपि ततः पूर्व साध्यत्वाकारं वक्तुं 'अग्निहोत्रम्' 'आघारम्' इति द्वितीयाया युक्तत्वात् । न चाऽत्र द्वितीयानुसारेण 'व्रीहीन् प्रोक्षती' त्यादाविव संस्कारः शङ्कनीयः । व्रीहिशब्दवदग्निहोत्राघारशब्दयोःप्रसि- द्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् । तस्मात् अग्निहोत्राधारशब्दौ दर्वि- होमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किंतु कर्मान्तरयो र्नामनी ॥ इति चतुर्थ तत्प्रख्याधिकरणम् ॥ ४ ॥ अथ पञ्चमं तद्वयपदेशाधिकरणम् ॥ ५ ॥ (१)पञ्चमाधिकरणमारचयति- श्येनेनाऽभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः । विधीयते पक्षिरूपो नाम वा तस्य कर्मणः ॥ १३ ॥ श्येनेनेति गुणः काम्यः सौमिकः सोमबाधया । न, चित्रावद्वाक्यभेदो रूढेश्चैवमनुग्रहः ॥ १४ ॥ यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता । नैकस्मिंस्तेन गौण्याऽस्य वृत्त्या स्यात्कर्मनामता ॥ १५ ॥ (२) श्येनेनाऽभिचरन्यजेत इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् । ततस्सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते । तथा सति श्येनशब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते । न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः । चित्रत्वस्त्रीत्ववद्गुण- द्वयाभावादिति प्राप्ते- ब्रूमः-(३) “यथा वै श्येनो निपत्याऽऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्या- १. अत्र पूर्वाधिकरणप्रत्युदाहरणरूपेण पूर्वपक्षोत्थानात्प्रत्युदाहरणसङ्गतिः । २. (षड्वि.वा. प्र. ३. खं. ८.)अभिपूर्वकचरधातोवैरिमरणानुकूलो व्यापारोऽर्थः । तदुत्तरं श्रूयमाणशतृप्रत्ययो हेत्वर्थकः । हेतुश्चाऽत्र फलरूपो विवक्षितः । एवञ्च श्येनसं- ज्ञकेन यागेन वैरिमरणानुकूलव्यापाररूपाभिचाररूपं फलं भावयेदिति विषयवाक्यार्थः । ३. यथा वा श्येनाख्यः पक्षी वियति डयमानो भूमौ विद्यमानं पदार्थमवलोक्य सहसा निपत्य गृह्णाति, तथेदमपि श्येनाख्यं कर्म भातृव्यं शत्रु सहसा निपत्य गृह्णा- तीत्यर्थः । एवञ्च 'यथावे' त्यर्थवादस्थस्य श्येनपदस्य पक्षिविशेषवाचित्वम् । श्येनेना- -