पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उद्भिदधिकरणम् ] प्रथमोऽध्यायः । ४३ " - फलोद्भदात्समानैषा निरुक्तिर्यागनाम्न्यपि । नामत्वमुचितं यागसामानाधिकरण्यतः॥४॥ " उद्भिदा यजेत पशुकामः' इत्यत्र तृतीयान्तेनोद्भित्पदेन योऽर्थो विवक्षितः सो- ऽयं यागे कश्चिद्गुणः स्यात् । “दध्ना जुहोती त्यनेन गुणविधिना समानत्वात् । अथोच्यते-दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्ध इति । तन्न; रूढ्य- भावेऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः । उद्भिद्यते भूमिरनेनेति व्युत्पत्त्या खनित्रवाच्य- सौ शब्दः । न चाऽत्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् । पशूनां गुणफ- लत्वात् । यथा (१)“गोदोहनेन पशुकामस्ये” त्यत्र पशवो गोदोहनगुणस्य फलम् , तथेह खनित्रगुणस्य फलमस्तु । यदि(२)"चमसेनाऽपः प्रणयेत्” इति विहितं प्रकृतं- मपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्राऽपि “ज्योतिष्टोमेन यजेतेति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् । तस्माद्गुणविधिरिति प्राप्ते- ब्रूम:--"पशुक्रामो यजेते' त्यस्य पदद्वयस्याऽयमर्थः-पशुरूपं फलं यागेन कुर्या- दिति । तत्र केन यागेनेत्यपेक्षायां उद्भिदेति तृतीयान्तं पदं यागनामत्वेनाऽन्वेति । उद्भिद्यते पशुफलमनेन यागेनेति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते । एवमपि गुण- विधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत्-मैवम् ; सामानाधिकर- ण्यस्य निर्णायकत्वात् । 'उद्भिन्नामकेन यागेन फलं कुर्यात्' इत्युक्ते. सामानाधिकरण्यं लभ्यते । गुणत्वे तु खनित्रेण साध्यो यो यागः, तेनेत्येवं वैयधिकरण्यं स्यात् । यदि 'खनित्रवता यागेनेति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत । तस्मा- दुद्भिदादिपदं नामधेयम् । 'बध्ना जुहीति' (३) व्रीहिभिर्यजेत' इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् । 'सोमेन यजेत'इत्यत्राऽपि अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणमि. त्यभिप्रेत्य सोमद्रव्यवता यागेनेति मत्वर्थलक्षणा स्वीकृता । उद्भिच्छब्दस्य तु लोकप्र- सिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् । प्रयोजनं तु–नाम्नः सर्वत्र व्यवहार एव । न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु 'अनेनाऽहं यक्ष्य' इत्याख्यानोपायो लघुः कश्चिदस्ति । तस्मात् उद्भिदादिकं नामधेयम्।। १. (आप. श्री. १. १६. ३.) गौर्दुह्यतेऽस्मिन्निति गोदोहनम् । यस्मिन् पात्रे गृहे प्रतिदिनं गौर्दुह्यते तत्पात्रं गोदोहनशब्देनोच्यते । दर्शपूर्णमासयोः 'अपः प्रणयती' त्यनेन यद्विहितमपां प्रणयनं तत् गोदोहनाख्येन पात्रेण कुर्यादित्यर्थः । २. चमसो नाम चतुरस्राकारस्समुष्टिकः प्रादेशमात्रो दारवः पात्रविशेषः । ३. आप. श्री. ६.३१. १३.