पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. १.पा. ४.अधि. २. , अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते । नामत्वेनाऽन्ययो वाक्ये वक्ष्यतेऽतः प्रमैव तत् ॥ २॥ (१) "उद्भिदा यजेत" "बलभिदा यजेत" "विश्वजिता यजेत" इत्येवं समाम्ना- यते । तत्रोद्भिदादिपदं न धर्मे प्रमाणम् । कुतः ? प्रमाणत्वेनाऽभिमतेषु त्रिषु वेदविभागे- ष्वनन्तर्भावात् । तथा हि-विधिः साक्षात्प्रमाणम् , अर्थवादमन्त्रौ तु विध्यन्वयेन । तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति, विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिक- र्तव्यतारूपेषु कस्याऽप्यवाचकत्वात् । नाऽप्यर्थवादत्वम् , स्तुतिबुद्धेरभावात् । नाऽपि मन्त्रत्वम् , उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् । तथा चोक्तम्- (२) "उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः । मन्त्रप्रसिद्धयभावाच्च मन्त्रतैषां न युज्यते ॥ इति । (३) 'अग्नये जुटं निर्वपामि" इत्युत्तमपुरुषः । (४) “अग्ने यशस्विन् यशसे ममर्पय" इत्यामन्त्रणम् । (५)"उर्वो चासि वस्वी चासि' इत्यस्यन्तरूपम् । (६)"इथे स्वोर्जे त्वा” इति त्वान्तरूपम् । आदिशब्देन आशीर्देवताप्रतिपादनादयः । एवमाद्य- नन्तर्भावादमानमिति चेत्- न; विध्यंशे करणेऽन्तर्भावात् । यद्यपि लिङ्पदेन सह समानपदोपात्तो यजिधा- त्वर्थः करणम्, तथाऽपि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति । तस्मात्प्रमाणम् ॥ इति प्रथमं नामधेयप्रामाण्याधिकरणम् ॥ १ ॥ अथ द्वितीयमुद्भिदधिकरणम् ॥ २॥ (७) द्वितीयाधिकरणमारचयति- गुणोऽयं नामधेयं वा खनित्रेऽस्य निरुक्तितः । ज्योतिष्टोमं समाश्रित्य पश्वर्थं गुणचोदना ॥ ३ ॥ स्यादिति मत्वा वार्तिककारैः प्रथमसूत्रेण गुणविधिनामधेयविचारोपोद्धाततया नामधे- यानां प्रामाण्याप्रामाण्यं विचार्य, द्वितीयसूत्रेण गुणविधिनामधेयविचारः प्रवर्तितः । तदनुसृत्याऽत्राऽप्यधिकरणरचना क्रियत इति बोध्यम् । १. इमे सोमयागाः ताण्ड्य महाब्राह्मणे एकोनविंशाध्याये विहिताः । २. शा. दी. १.४. १. पृ. ५४. ३. ते. सं. १. १. ४. १. ४. ते. सं. १. १. ९. ३. ५. तै. सं. १. १. ९. ६. ७. पूर्वाधिकरणे उद्भिदादीनां धर्मप्रामाण्ये सिद्धेऽधुना प्रामाण्यविशेषचिन्त। क्रियत इत्युपजीव्योपजीवकभावसङ्गतिः । > तै. सं. १. १.१.