पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नामधेयप्रामाण्याधिकरणम् ]] प्रथमोऽध्यायः। ४१ अत्रैव गुरुमतमाह- गवादिचोदना नो मा, जातिव्यक्त्योरनिर्णयात् । आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः ॥ ३५ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनयिन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ स्पष्टोऽर्थः ॥ इति दशममाकृत्यधिकरणम्॥ १० ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे प्रथमा- ध्यायस्य तृतीयः पादः ॥३॥ अथ प्रथमाध्याय चतुर्थः पादः ॥ प्रथमं नामधेयप्रामाण्याधिकरणम् ॥१॥ (१) चतुर्थपादस्य प्रथमाधिकरणं (२) वार्तिककारोन्नीतमारचयति- उद्भिदादिपदं धर्मे किममानमुत प्रमा। विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा ॥१॥ - १. अत्रोद्भिदादिनामपदानां प्रामाण्याप्रामाण्यविचारात्प्रमाणाध्यायसङ्गतिः । पूर्व पादत्रये विध्यादिवाक्यप्रामाण्यं निरूपितम् , इदानीं पदप्रामाण्यनिरूपणस्य चतुर्थपा- दार्थत्वादत्र नामपदानां प्रामाण्यं निरूप्यत इति पादसङ्गतिः । नामधेयानां पदरूप- त्वेन क्वचिदपि स्मृतिमूलत्वाभावेन च श्रौतस्मार्तवाक्यप्रामाण्य विचारानन्तरं चतुर्थ- पादे प्रामाण्यविचारः कृतः । पूर्वाधिकरणसङ्गतिस्तु–पूर्वाधिकरणे जातिव्यक्त्योरवह- ननादिक्रियासु यथासम्भवमन्वय उपपादिते, उद्भिदादिशब्दार्थस्योभयथाऽपि क्रिया- न्वयो न सम्भवतीत्याक्षेपादाक्षेपिकी । २. अत्र भाष्यकारैः 'उद्भिदा यजेते' त्युदाहृत्य किमुद्भिदादिशब्दा गुणसमर्पकाः ? उत कर्मनामधेयानीति सन्दिह्य 'उक्तं समाम्नायैदमयं तस्मात्सर्वं तदर्थं स्यादिति प्रथमसूत्रे पूर्वपक्षं कृत्वा 'अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्वमविधायकत्वादि' त्युत्तरसूत्रेण नामधेयत्वं सिद्धान्तितम् । तदेतस्य विचारस्य प्रमाणाध्यायसङ्गतिर्न