पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० सविस्तरायां जैमिनीयन्यायमालायां [अ.१. पा. ३. अधि १०. 2 स्वरुयूपाहवनीयादिशब्दानां तदर्थानां चाऽलौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहा- राद्वयुत्पत्तिः सम्भवति । उत्तानवहनादिकं त्वर्थवादः। अस्तु वा तथा वहनम् , तथाऽ- प्युत्तानादिशब्दास्तदर्थाश्च लोकसिद्धा एव । तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ इति लोकवेदाधिकरणम् । आकृत्यधिकरणम् ) द्वितीयं वर्णकमारचयति- व्यक्तिर्व्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् । व्यक्तिर्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते ॥ ३३ ॥ शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता । क्रियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् ॥ ३४ ॥ "व्रीहीनवहन्ति" "पशुमालभेत" "गामानय" "ब्राह्मणो न हन्तव्यः” इत्या- दिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः । कुतः ? अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् । न ह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या । नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः सम्भवति, अनन्ता हि व्यक्तयः, अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् । किञ्च शुक्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थ व्यभिचरेत् । तत्र कथं व्युत्पत्तिरिति चेत् ? एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते- ब्रूमः-अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छब्दार्थत्वं तस्या एवो- चितम् । किंच गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् । तस्मादाकृतेरेवाऽभिधेयत्वम्।यद्याकृताववहननादिक्रिया न पर्यवस्येत्

तर्हि व्यक्तिस्तत्रोपलक्षणीया।किंच "श्येनचितं चिन्वीत, इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते ।

तस्मात् आकृतिः शब्दार्थः ॥ 3 9. • ( ते. सं. ५. ४. ११.) 'कर्मणि हन' इत्यस्मात्सूत्रात्कर्मणीत्यधिकृत्य 'कर्म- ण्यग्न्याख्यायामिति सूत्रेण कर्मण्युपपदे कर्मणि च वाच्ये चिनोतेर्धातोः क्विप् प्रत्ययः । श्येनशब्दस्तत्सदृशे लाक्षणिकः । एवञ्च श्येन इव चीयत इति श्येनचित् अग्नयाधारस्थ- ण्डिलविशेषः, तं चिन्वीत चयनेन सम्पादयेदिति वाक्यस्याऽर्थः ।