पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ दशममाकृत्यधिकरणम् ॥ १० ॥ (लोकवेदाधिकरणम् , अाकृत्यधिकरणोपोद्धातः) (१)दशमाधिकरणे प्रथमं वर्णकमारचयति- लोके पदपदार्थों यौ न तौ वेदेऽथवाऽत्र तौ । रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा ॥ ३१ ॥ वर्णकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता । प्रायिकेण पदेक्येन तदर्थैक्यं तथाविधम् ॥ ३२।। वैदिको पदपदार्थों लौकिकाभ्यां पदपदाथाभ्यामन्यौ। कुतः ? रूपभेदात् । पदे तावद्रूपभेदो दृश्यते । आत्मशब्द आकारादित्वेन लोके नियतः । वेदे तु क्वचिदा- काररहितः पट्यते-“प्रयतं पुरुषं त्मना' इति । 'ब्राह्मणाः' इति लोके, वेदे त्वन्यथा पठ्यते-(२)"ब्रह्मणासः पितरः सोम्यासः' इति । अर्थभेदोऽपि स्फुटः । “उत्ताना वै देवगवा वहन्ति ' इति श्रूयते । मनुष्यगवास्त्ववाञ्चो वहन्ति । वेदे वनस्पतिर्हिरण्यपर्णः। तथा च श्रूयते—(३)“देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थमिति । तस्मात् लोकवेदयोः पदपदार्थावन्याविति प्राप्ते- ब्रूमः—य एव लौकिकाः पदार्थाः, त एव वैदिकाः । तथा हि-वर्णानां तावन्नि- त्यत्वं (४)प्रथमपादे साधितम् । यथा प्रयोक्तॄणां पुरुषाणां भेदेऽप्येकैकस्य पुरुषस्य बहु- कृत्व उच्चारणभेदेऽपि त एवामी वर्णा इति प्रत्यभिज्ञानाद्वर्णैक्यम् , तथा 'यानि लोके गवादिपदानि, तान्येव वेदेऽधीयमानानी' त्यबाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् । 'त्मना, देवासः' इत्यादिपदभेदस्तु क्वाचित्कः । नैतावता बहुतरप्रत्यभिज्ञावगतं पदै- क्यमपोढुं शक्यम् । अन्यथा 'सोऽयं देवदत्तः' इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणाऽपोद्येत । पदैक्ये चाऽर्थैकत्वमवश्यंभावि । अन्यथा वेदे पृथग्व्युत्प- त्यभावादबोधकत्वं प्रसज्येत । एतदेवाऽभिप्रेत्योक्तम्- "लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः” इति । । 2 १. अस्याऽधिकरणस्य न पूर्वाधिकरणेन सङ्गतिः, किन्तूत्तराधिकरणेन ( आकृत्य धिकरणेन ) औपोद्घातिकी सङ्गतिर्द्रष्टव्या। अत एव भाष्यादौ व्याकरणाधिकरणानन्तरं तत्सङ्गतत्वादाकृत्यधिकरणाङ्गसन्देहमुपन्यस्य पश्चाल्लोकवेदाधिकरणं प्रवर्तितम् । अतश्च व्याकरणाधिकरणेन आकृत्यधिकरणस्य प्रासङ्गिकी सङ्गतिः, लोकवेदाधिकरणस्याऽऽकृ. त्यधिकरणेनोपोद्धातसङ्गतिरिति विवेको बोध्यः । २. ऋ. सं. ५. १. २० ५, तै. सं. ४. ६. ६. ४. ते. बा.६.६.११. २. ४. शब्दनित्यत्वाधिकरण इति शेषः ।