पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ३. अधि. ९. तथा , लोके कामधुग्भवती” ति गुणवाक्यम्। (१)"तस्माद्ब्राह्मणेन न म्लेच्छित वै नाऽपभा- षित वै, म्लेच्छो ह वा एष यदपशब्दः” इति दोषवाक्यम्। यथा प्रयोगे नियमः, साधुत्वेऽपि नियमो द्रष्टव्यः–'गवाद्या एव साधवः, न तु गाव्यादयः' इति । अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् । न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् । एतदे. वाऽभिप्रेत्योक्तम्-"तत्र यूपादिकरणवव्द्याकरणपरम्पराया अनादित्वादनुपालम्भः” इति । व्याकरणप्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् । तथा चाऽऽथर्वणिका आमनन्ति(२)-"द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवाऽपरा च । तत्राऽपरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्यौतिषम्” इति । तैत्तिरीयब्राह्मणेऽपि व्याकरणस्योपादेयता श्रूयते—(३)“वाग्वै पराच्यव्याकृताऽवदत् ते देवा इन्द्रमब्रुवन्-इमां नो वाचं व्याकुर्विति.......तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् , तस्मादियं व्याकृता वागुद्यते” इति । व्याकर्तारश्च पाणिनिकात्यायन- पतञ्जलयो मन्वादिसमानाः । तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकर- णस्मृतिः प्रमाणम् । अत्रैव गुरुमतमाह- अश्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् । अमात्वेऽदन्त्यनिर्णीतिरातोक्तव्याकृतेर्बलात् ॥ ३० ॥ "अश्वमालभेत' इत्यत्राऽकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे स्वं धनम् , तद्रहितं दरिद्रमालभेतेत्यर्थो भवति । तालव्यत्वे तुरङ्गमवाचित्वम् । ततः संशया- दप्रामाण्यमिति चेत्- न; व्याकरणानुसारेण "अशू व्याप्तौ” इत्यस्माद्धातोरोणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् । तस्मादश्वालम्भनशास्त्रं प्रमाणम् ॥ इति नवमं व्याकरणाधिकरणम् ॥ ९ ॥ " दिविभागज्ञानद्वाराऽवगतः, सुष्ठ प्रयुक्तः क्रियाकारकादियोजनया प्रयुक्तः, स्वर्गे लोके कामधेनुरिव अभिलषितानि फलानि ददातीत्यर्थः । १. श. ब्रा. ३. २. १. १४. २. मु. उ.१.१.४, ५. ३. ( तै. सं. ६.४ ७. ३.) ज्योतिष्टोमे ऐन्द्रवायवग्रहविधिसन्निधौ पठितोऽ. यमर्थवादस्तत्स्तुत्यर्थः । अस्याऽर्थस्सायणाचार्येरेवंकृतः- "येयं वैदिकमन्त्ररूपा वाक् सा पूर्वं पराची समुद्रघोषवदैक्यरूपेण दण्डायमाना। तस्यां वाच्येतावदेकं वाक्यं, तस्मिन्वाक्येऽप्येतावदेकं पदं, तस्मिन् पदेऽपीयं प्रकृतिरयं प्रत्यय इत्येवं विभज्य सर्वतः करणं व्याकरणं तद्रहितत्वादव्याकृतैवाऽवदत् प्रवृत्ता । तामिन्द्रो मध्यतोऽवक्र- ग्य वाक्यपदादिरूपेण तत्र तत्र विच्छिद्य विभिन्नां कृतवान्' इति । ,