पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

याकरणाधिकरणम् ] प्रथमोऽध्यायः । ३७ अत्रैव गुरुमतमाह- प्राच्यादिपदयुक्ताया श्रुतेरनुमितौ पदे । अर्थाबोधादमात्वं चेन्न, सामान्यानुमानतः ॥ २७ ॥ प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तै- वाऽनुमातव्या । तत्र प्राच्यादिपदस्याऽर्थो न बुध्यते । ये पुरुषाः कञ्चित्कालं प्राच्यां दिशि निवसन्ति, त एव कालान्तरे प्रतीच्यां दिशि निवसन्त उपलभ्यन्ते । तत्र श्रौत- प्राच्यादिपदस्याऽर्थाबोधादप्रमाणं श्रुतिरिति चेत्-- मैवम् ; अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् । अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ इत्यष्टमं होलाकाधिकरणम् ॥ ८ ॥ । 00000 अथ नवमं व्याकरणाधिकरणम् ॥ ६॥ (१)नवमाधिकरणमारचयति- गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्चन । नियमोऽत्राऽस्ति वा, नाऽस्ति व्याकृतेर्मूलवर्जनात् ॥ २८ ।। साधूनेव पयुञ्जीत गवाद्या एव साधवः । इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥ २६ ॥ व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि ‘गौः' इत्येष शब्दः प्रयुज्यते । तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिकेत्येवमादयः शब्दाः प्रयुज्यन्ते । तत्र ईदृश एव शब्दः साधुः, नेदृशः इत्यस्मिन्नर्थे नि तन्नाऽस्ति-ईदृश एव शब्दः प्रयोक्तव्यः, नेदृश इति ।यामकं नाऽस्ति । तथा प्रयोगेऽपि न तावद्वृद्धव्यवहारो नियामकः, तस्य सर्वेषु शब्देषु समानत्वात् । नाऽपि व्याकरणस्मृतिर्नियामिका, तस्या निर्मूलत्वे- नाऽप्रमाणत्वात् । न ह्यभियुक्तप्रयोगस्तन्मूलम् , अयोन्याश्रयत्वप्रसङ्गात् । व्याकरण- स्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तृणामभियुक्तस्वसिद्धिः, तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् । तस्मान्नाऽस्ति साधुत्वप्रयोगयोर्नियम इति प्राप्ते- ब्रूमः—'साधूनेव प्रयुञ्जीत, न त्वपभ्रंशान्' इत्यस्ति नियमः । उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् ।(२)“एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे १. स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणस्य प्रामाण्यं पुनरत्राऽऽक्षिप्य समा- धीयत इत्याक्षेपिकी सङ्गतिर्द्रष्टव्या । २. ( म. भा. ६. १.८४ ) एकः एकोऽपि शब्दः सम्यग्ज्ञातः प्रकृतिप्रत्यया- ४ जै० न्या० 9