पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिष्टाकोपाधिकरणम् ] प्रथमोऽध्यायः । ३१ , आचान्त्यादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः । धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ॥ ११ ॥ 'क्षुत आचामेत्' इति विहितं पुरुषार्थमाचमनम् । यदा तु क्रृतुमध्ये क्षुतादि निमित्तं प्राप्नोति, तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते 'आचान्तेन कर्म कर्तव्यमिति, सेयं स्मृतिर्न प्रमाणम् । कुतः ? विरुद्धत्वात् । 'वेदं कृत्वा वेदिं करोती'- ति श्रुतौ पूर्वकालवाचिना क्त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं सम्मा- र्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङगुलखाता भूमिः । तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तयं विरुध्यते । तस्माद्वेष्टनस्मृ- तिवदाचमनस्मृतिर्न प्रमाणमिति प्राप्ते- ब्रूमः–वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः । क्रमस्तु अनुष्टेयपदार्थनिष्ठो धर्मः । स च पदार्थानुपजीवति । तत उपजीव्यविरोधात्क्रम एव बाध्यते । न तु क्रमेणाऽऽचमनस्य बाधोऽस्ति । तस्मादियं स्मृतिः प्रमाणम् ॥ अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार । तत्र प्रथमं विचारं दर्शयति- शाक्योक्ताहिंसनं धर्मो न वा, धर्मः श्रुतत्वतः । न धर्मः, न हि पूतं स्याद्गोक्षीरं श्वदृतौ धृतम् ॥ १२ ॥ 'ब्रह्मचर्यमहिंसां चाऽपरिग्रहं च सत्यं च यत्नेन रक्षेदिति श्रुतावहिंसादिर्धर्मत्वे- नोक्तः । स एव धर्मः शाक्येनाऽप्युक्तः । तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत्- न; स्वरूपेण धर्मस्याऽपि(१) गोक्षीरन्यायेन शाक्यसम्बन्धे सत्यधर्मत्वप्रसङ्गात् । तदीयग्रन्थेनाऽहिंसादिर्नाऽवगन्तव्यः । तस्मान्न सा स्मृतिर्धर्मे प्रमाणम् ॥ विचारान्तरं दर्शयति- सदाचारोऽप्रमा मा वा निर्मूलत्वादमानता । अष्टकादेरिवतैस्य समूलत्वात्प्रमाणता ॥ १३ ।। (२) होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत्- न ; वैदिकैः शिष्टैः परिगृहीतत्वेनाऽष्टकादिवद्वेदमूलत्वात् । अत एव मन्वादिभिर्ग्र- १. पवित्रमपि गोक्षीरं श्वचर्मनिर्मितदृतिनिक्षिप्तं सत् यथा अपवित्रं भवति, तथा अहिंसाया धर्मत्वेऽपि शाक्याभिहितत्वेन ग्रहणेऽधर्मत्वं प्रसज्यत इति न्यायार्थः । २. फाल्गुनकृष्णप्रतिपदि क्रियमाणः परस्परजलसेकरक्तधूलिप्रक्षेपरूपोत्सवः होलाकोत्सवः।