पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ३.अधि.४. तृतीयं लोभादिमूलकस्मृत्यप्रामाण्याधिकरणम् ॥३॥ (१)तृतीयाधिकरणमारचयति- वैसर्जनाख्यहोमीयवाससो ग्रहणस्मृतिः। प्रमा न वा, श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ ८॥ दृष्टलोभैकमूलत्वसम्भवे श्रुत्यकल्पनात् । सर्ववेष्टनवद्बाधहीनाऽप्येषा न हि प्रमा ॥९॥ ज्योतिष्टोमेऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते(२) वैसर्जनहोमो विहितः- 'यजमानं पत्नीं पुत्रांश्च भ्रातृ'श्चाऽहतेन वाससा प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनिबध्य जुहोतीति । तस्मिन्वासस्येवं स्मर्यते-'वैसर्जनहोमीयं वासोऽध्वर्युःपरिगृह्णातीति । सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते । ततोऽष्टकादिस्मृतिवत्प्रमाण- मिति प्राप्ते- ब्रूमः--कदाचित्कश्चिदध्वर्युर्लोभादेतद्वासो जग्राह । तन्मूलैवैषा स्मृतिरित्यपि कल्पना सम्भवति । दृष्टानुसारिणी चैषा कल्पना, दक्षिणया परिक्रीतानामृत्विजां लोभ- दर्शनात् । तथा सत्यस्याः स्मृतेरन्यथाऽप्युपपत्तावष्टकादिस्मृतिवन्न मूलश्रुतिः कल्प- यितुं शक्यते । अतो बाधाभावेऽपि मूलवेदाभावानेयं स्मृतिः प्रमाणम् ॥ इति तृतीयं लोभादिमूलकस्मृत्यप्रामाण्याधिकरणम् ॥ ३ ॥ - , 50000000000 अथ चतुर्थ शिष्टाकोपाधिकरणम् ॥ ४ ॥ (३) चतुर्थाधिकरणं भाष्यमतेनाऽऽरचयति- आचान्तनेत्यमा मा वा स्मृतिरेषा न मा भवेत् । वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः॥ १० ॥ १. पूर्वाधिकरणे श्रुतिविरोधे स्मृतेरप्रमाण्यमुपन्यस्याऽधुना तादृशश्रुतिविरोधाभा- वेऽपि यत्र लोभादिहेत्वन्तरदर्शनं तत्राऽपि स्मृतेरप्रामाण्यमुपपादयति । २. अवान्तरदीक्षाविसर्जनार्थो होमः वैसर्जनहोमः । स च 'त्वं सोम तनूकृद्भ्यः' इत्यादिभिर्मन्त्रैः यजमानपत्नीपुत्रभ्रातृषु समन्वारब्धेष्वहतेन वाससा सम्प्रच्छादितेषु वाससोऽन्ते स्रुग्दण्डमुपसंगृह्य चतुर्ग्रहीतेनाऽऽज्येन कर्तव्यः । ( आप. श्री. ११. १६. १५.) द्रष्टव्यम् । ३. प्रत्यक्षश्रुतिविरुद्धानां लोभादिहेतुकानाञ्च स्मृतीनामप्रामाण्यं पूर्वमुपपायेदानी श्रुत्या सह स्मृतेर्विरोधः क्वाऽस्ति क्वच नाऽस्तीति प्रसङ्गाद्विचार्यत इति प्रास- ङ्गिकी सङ्गतिः ।