पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विरोधाधिकरणम् ] प्रथमोऽध्यायः । २९ -अथ द्वितीयं विरोधाधिकरणम् ॥ २॥ (१)द्वितीयाधिकरणमारचयति- औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः । अमितिर्वेति सन्देहे, मितिस्स्यादष्टकादिवत् ॥ ४ ॥ औदुम्बरी स्पृशन् गायेदिति प्रत्यक्षवेदतः । विरोधान्मूलवेदस्याऽननुमानान्न मानता ॥ ५ ॥ ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते । तस्याश्च वाससा वेष्टनं स्मर्यते-'औदुम्बरी सर्वा वेष्टयितव्येति । सा स्मृतिः प्रमाणम् , अष्टकादिस्मृतिष्विव मूलवेदस्याऽनुमातुं शक्यत्वादिति प्राप्ते- ब्रूमः—'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षवेदवचनेन स्पर्शो विधीयते । न च सर्ववेष्टने स्पर्शः संभवति । अतो मूलवेदानुमान (२)कालात्ययापदिष्टम् । अतो विप्र- लम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ अस्मिन्नेवाऽधिकरणे मतान्तरमाह- प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् । अमात्वे शङ्किते बाधोऽनुमानस्याऽत्र वर्ण्यते ॥ ६ ॥ परप्रत्यक्षवदाऽत्र मूल चेद्वेष्टनस्य तत् । अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः ॥७॥ स्पर्शसर्व वेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः। अनुमानस्तय कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् । (३)यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामा- ण्यम् । तथाऽपि परप्रत्यक्षात्स्वप्रत्यक्षस्याऽभ्यर्हितत्वेन स्पर्श एवाऽत्राऽनुष्टेयो, न तु सर्ववेष्टनमिति सिद्धान्तः ॥ इति द्वितीयं विरोधाधिकरणम् ॥ १. पूर्वाधिकरणेनाऽस्याऽऽपवादिकी सङ्गतिः । २.बाधितमित्यर्थः । ३. अथेति. ख. पु.