पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. ३. अधि. ५० न्थगौरवभयाद्विशेषाकारेणाऽनुपदिष्टोऽपि सदाचारः सामान्याकारेणोपदिष्टः १) "श्रुतिः स्मृतिः सदाचारः" इत्येवं धर्मे प्रमाणोपन्यासात् । तस्माच्छिष्टाचारः प्रमाणम् ॥ इति चतुर्थ शिष्टाकोपाधिकरणम् ॥ ४ ॥ भाष्यकारमतेन पञ्चमं यववराहाधिकरणम् ॥ ५ ॥ (२)पञ्चमाधिकरणमारचयति- यवादिशब्दाः किं द्व्यर्था नो वाऽऽयम्लेच्छसाम्यतः । दीर्घशूकप्रियंग्वाद्या द्वयेऽप्यर्था विकल्पिताः ॥ १४ ॥ यत्राऽन्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी । शास्त्रीयधर्मे तेनाऽत्र प्रियङ्ग्वादि न गृह्यते ।। १५ ॥ 'यवमयश्चरुर्भवति' 'वाराही उपानहावुपमुञ्चत' इति श्रूयते । तत्र यवशब्द(३) आर्या दीर्घशकेषु प्रयुञ्जते, वराहशब्दं च सूकरे । (४)म्लेच्छास्तु यवशब्दं प्रियङ्गुषु, ( वराहशब्दं च कृष्णशकुनौ। तथा सति लोकव्यवहारेण निश्चेतव्येषु शब्दार्थेष्वार्य- म्लेच्छप्रसिद्धयोः समानबलत्वादुभयविधा अप्यर्था विकल्पेन स्वीकार्या इति प्राप्ते- ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी प्रत्यासन्नत्वादविच्छिन्नपारम्प- र्यागतत्वाच्च । शास्त्रे यवविध्यर्थवाद एवं श्रूयते-(५) यत्राऽन्या औषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्टन्तीति इतरौषधिविनाशकालेऽभिवृद्धिदीर्घशुकेषु दृश्यते । न तु प्रियङ्गुषु, तेषामितरौषधिपरिपाकात्पूर्वं पच्यमानत्वात् । वाराहोपानद्विध्यर्थवाद श्चैवं भवति–'वराहं गावोऽनुधावन्ति' इति गवामनुधावनं सूकरे सम्भवति, न तु कृष्णशकुनौ । तस्माद्दीर्घशुकादिर्यवादिशब्दार्थः ॥ ( वार्तिककारमतेन पील्वधिकरणम् ) अत्र वार्तिककारः पीलुशब्दमुदाजहार । तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे । तत्राऽविप्लुतव्यवहारस्याऽऽर्येषु सम्भवाद्वृक्ष एव पीलुशब्दार्थः ॥ १. या. स्मृ. १.७. २. पूर्वाधिकरणे आचारप्रामाण्यस्य स्थापितत्वात्तत्प्रसङ्गेन शब्दार्थप्रयोगरूपाचार- विप्रतिपत्तौ बलावलमिह विचार्यत इति पूर्वाधिकरणेनाऽस्य प्रासङ्गिकी सङ्गतिः । ३. वैदिकभाषैकनिरता आर्यावर्तनिवासिनस्त्रैवर्णिका आर्याः ४. कुमारिकाखण्डबहिर्वासिनोऽपभ्रष्टभाषाभाषिणो म्लेच्छाः । ५. श.वा. ३.६.१. १०. ।